________________
तत्त्वबोधिनीविवृतिविभूषितम्
अत एवैतन्नये परगतस्य दान- हरणादेर्नास्त्येव सद्भावः, स्वगतं तत्फलं तु स्वगतदान - हरणाद्यध्यवसाय विशेषादेवेति विवेचितमन्यत्र ॥ अयं पुनरिह शब्द - समभिरूढयोरवान्तरविशेषोऽनुसन्धेयः यदाद्येन बाह्यवस्तुसन्निधापितस्तदाकाराध्यवसायः फलक्षमोऽभ्युपेयः, द्वितीयेन तु वासनाविशेषमात्रोत्थापित इति ॥
इत्थमेव 'नैगमनये जीवाऽजीवयोर्हिसा, सङ्ग्रह-व्यवहारयोः षट्स्वेव कायेषु, ऋजुसूत्रे प्रतिजीवं भिन्नभिन्ना सा, शब्दनये तु स्वपरिणामविशेषरूपैव सा' इत्यादिनयविचारे शब्द - समभिरूढयोर्भाव
गृह्णन् को बाह्यं करोमीत्य मिमन्यत इति सम्बन्धः । अत एव कुलालादिर्बाह्यघटकारित्वाभावादेव । एतन्नये समभिरूढनये । यदि परगतदान - हरणादिकं नास्ति कथं तत्फलमनुभवति दानादिकर्तेत्यत आह- स्वगतमिति । तत्फलं तु दान-हरणादि फलं स्वर्गनरका दिकं पुनः । स्वगतेति यः स्वगतो दान - हरणाध्यवसायविशेषस्तस्मादेवेत्यर्थः ।
शब्द- समभिरूढयोरत्राऽपि विशेषमावेदयति - अयमिति - 'यदाद्येन' इत्यादिनाऽ - नन्तरमेवाभिधीयमानः, अस्य 'अवान्तर विशेषः' इत्यनेनान्वयः । आद्येन शब्दनयेन । बाह्यवस्तुसन्निधापितः बाह्यवस्तुसन्निधानेन जनितः, यदाकारकं बाह्यवस्तु चक्षुरादीन्द्रियसन्निकृष्टं भवति तदाकाराध्यवसायो भवति, स चाध्यवसायो घटादिबाह्यगोचरप्रवृत्तिनिवृत्त्यादिलक्षणव्यवहार स्वरूपफलजननायापकल्पते इत्यर्थः । द्वितीयेन तु समभिरूढनयेन पुनः | योगाचारमतपर्यवसायिना समभिरूढेन बाह्यवस्तुनोऽनभ्युपगमान्न तत्सन्निधानं सम्भवतीत्यतः 'पूर्वपूर्ववासनाजनितोत्तरोत्तरवासनाविशेषादिव तत्तदाकाराध्यवसायः संवृति - प्रवृत्ति - निवृत्त्यादिलक्षणव्यवहारनिर्वाहक इत्याह-वासनाविशेषमात्रोत्थापित इति ॥
नयानामन्योऽन्यभेदसाधकविशेषान्तरमावेदयति- इत्थमेवेति- अमुना प्रकारेण - वेत्यर्थः, अस्य ‘विषय मेदः सङ्गच्छते' इत्यनेनान्वयः । 'कार्येषु' इत्यनन्तरं 'हिंसा' इत्यस्यानुकर्षः । सा हिंसा एवमग्रेऽपि । नयान्तरत एवम्भूतनयस्य विशेषमाह -