________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[६३ मेदग्रहणान्मा भूदभेदग्राहिताऽनुभवस्य, अत्र तु नैवमिति वैषम्यमिति वाच्यम् , अवगतविच्छेदानामपि प्रमातृणां समानवर्णसंस्थानप्रमाणेषु केशादिषु तदन्येषामिव प्रत्यक्षेण भेदनिश्चयाऽभावात् , आनुमानिकभेदनिश्चयस्य चात्राऽपि साम्यात् , न च विकल्पवशादनुभवस्य विषयव्यवस्था सङ्गच्छते, अन्यथाऽपि विकल्पसम्भवात् शङ्कानिवृत्तेः, न च बाधकप्रमाणाभावाच्छङ्काऽ
नाम जायताम् ,पूर्वदृष्टं घटं पश्यामि' इति व्यवसायस्थले तु पूर्वदृष्टघटादिविनाशाऽदर्शनाद् विच्छेदानुभवतो मेदग्रहणाऽभावादभेददर्शनं भविष्यतीत्याशङ्कय प्रतिक्षिपति-न चेति-अस्य 'वाच्यम्' इत्यनेन सम्बन्धः। तत्र लून-पुनर्जातकेशादिस्थले । अत्र तु :पूर्वोत्तरकालविद्यमानघटादिस्थले पुनः। नैवं भेदग्रहणतोऽभेदग्राहिदर्शनप्रतिबन्धो नेति । ये पूर्वदृष्टकेशादीनां विनाशदर्शनतस्तेषां विच्छेदमवगतवन्तस्तेषामपि प्रमातृणां विच्छेदानभिज्ञानामिव प्रत्यक्षेण भेदनिश्चयस्तत्र न भवत्येवेति न तत्राप्यभेददर्शनप्रतिबन्धसम्भवः, अनुमानतस्तु यदि विच्छेदाभिज्ञानां तत्र भेदनिश्चयस्तेन चामेददर्शनप्रतिबन्धस्तहि सत्त्वादिना क्षणिकत्वानुमानतो घटादावपि पूर्वापरयोर्मेदनिश्चयसम्भवेन तेन प्रतिबन्धादभेददर्शनाsसम्भव इत्याह-अवगतविच्छेदानामपीति । तदन्येषामिव अवगतविच्छेदप्रमातृभिन्नानामिवानवगतविच्छेदानामिवेति यावत् । 'न च' इत्यस्य 'सङ्गच्छते' इत्यनेनाऽन्वयः। अन्यथापि यादृशविषयप्रतिभासनं ताग्विषयमन्तरापि । शङ्काऽनिवृत्तेः किं स्वप्रतिभास्यविषयसद्भावत एवायं विकल्पः ? तदभावे वा? इति संशयाऽनिवृत्तेः। ननु स्वप्रतिभास्यविषयबाधकप्रमाणाऽभावादुक्तशङ्काऽभाव इत्याशङ्कय प्रतिक्षिपति-न चेति । बाधकप्रमाणे सति विपरीतकोटिनिर्णयो