________________
। ६२ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् नीलादि यदुभयत्रैकं भासेतेत्यप्रतिभासमाने नित्यत्वासाधने न कापि क्षतिः, प्रतिभासस्यैवानित्यत्वसाधनानाध्यवसायवशादध्यक्षग्रहणव्यवस्थेत्येके । अपरे तु मन्यन्ते-यद्यपि नीलाध्यवसा. यानीलदर्शनस्य तद्ग्राहकत्वं व्यवस्थाप्यते तथापि लून-पुनर्जातकेशादिषु 'पूर्वदृष्टं पश्यामि' इत्यध्यवसायाद् व्यभिचारेण न तस्य तद्रूपार्थग्राह्यनुभवव्यवस्थापकत्वम्, न च, विच्छेदाभिहस्तत्र तथा च यत् प्रतिभासते तत् प्रतिक्षणं विलक्षणमेवेति न तस्य नित्यत्वं सम्भवति, यन्न प्रतिभासते तस्यैव नित्यत्वसाधनं यदि क्रियते तदा प्रतिभासमानेऽनित्यत्वसाधनस्याऽस्मदभिमतस्य न तेन बाध इत्याह-अप्रतिभासमान इति । ' प्रतिभासस्यैव ' इति स्थाने 'प्रतिभासमानस्य' इति पाठो युक्तः, प्रतिभासपदं प्रतिभासमानपरं वा। कस्यचिदध्यवसायस्य स्वानुरूपदर्शनप्रभवत्वमिति तादृशब्यवसायेन स्वविषयग्राहकदर्शनव्यवस्था भवति, कश्चित् तु व्यवसायो दोषप्रभवो दर्शनमन्तरेणापि भवतीति व्यभिचारेण तादृशव्यवसायेन स्वविषयग्राहकदर्शनव्यवस्था न भवतीति लूनपुनर्जातकेशादिषु 'पूर्वदृष्टं पश्यामि' इति व्यवसायाद् व्यभिचारेण तादृशव्यवसायस्य न पूर्वापरदृष्टैकत्वग्राहिदर्शवव्यवस्थापकत्वमित्यपरेषां मतमुपदर्शयति-अपरे तु मन्यन्त इति। व्यभिचारेण तत्र पूर्वदृष्टकेशादीनां विनष्टत्वेन पुनर्जातकेशादीनामभिनवानां पूर्वदृष्टत्वाऽ भावेन पूर्वदृष्टविषयकदर्शनाभावेऽपि 'पूर्वदृष्टं पश्यामि' इति व्यवसायस्य जायमानत्वतस्तदभावे तद्भावलक्षणव्यतिरेकव्यभिचारेण। तस्य 'पूर्वदृष्टं पश्यामि' इति व्यवसायस्या ननु भेदग्रहणस्याऽभेदग्रहणप्रतिबन्धकत्वमिति तत्र पूर्वदृष्टकेशादीनां विनाशदर्शनत: 'पूर्वकेशादयो विनष्टा अभिनवाः केशादय उत्पन्ना' इत्येवं विच्छेदज्ञानवद्भिर्भेदग्रहणात् तद्रूपप्रतिबन्धकेन प्रतिबन्धादभेदग्राहि दर्शनं मा