________________
अनेकान्तव्यवस्थाप्रकरणम् ]
__यदपि 'पूर्वदृष्टं पश्यामि 'झंडे यवसाय लामिविकल्पक दर्शनं पूर्वापरैकत्वग्राहीत्यभ्युपगम्यते, तदप्ययुक्तम्-व्यवसायमा-- त्रानुसारेण ग्राहकदर्शनाऽव्यवस्थापनात् , प्रतिभासानुसारेणैव व्यवसायव्यवस्थापनात् , अन्यथाऽश्वविकल्पनसमये गोदर्शनाभ्युपगमानुपपत्तेः, प्रतिभासश्च निरस्तपूर्वापरभावो वर्तमानाऽऽरूढ एव परिस्फुटः । न च पूर्वापरदर्शनप्रतिभासिस्वरूपद्वयव्यतिरिक्तं यकनिर्विकल्पकदर्शनलक्षणप्रत्यभिज्ञानप्रसिद्धौ ततः पूर्वापरैकत्वं सिध्येत् , उक्तनियमे प्रमाणाभावात् तु व्यवसायसद्भावेऽपि ततस्तद्विषयग्राहिनिर्विकल्पकाऽसिद्धया ततो व्यवसायव्यवस्थापनं न सम्भवति, किन्तु यत् प्रतिभासते तद्विषयो व्यवसाय इति 'पूर्वदृष्टं पश्यामि ' इति व्यवसायतः पूर्वापरैकत्वग्राहि निर्विकल्पकदर्शनलक्षणप्रत्यभिज्ञानाऽसिद्धया न ततः पूर्वापरैकत्वसिद्धिरित्याह-व्यवसायमात्रानुसारेणेति। अन्यथा व्यवसायमात्रानुसारेण ग्राहकदर्शनव्यपस्थापने। अश्वविकल्पनसमय इति-अश्वविकल्पनसमयेऽश्वाध्यवसाय एव, न गवाध्यवसाय इत्यश्वाध्यवसायानुसारेणाश्वनिर्विकल्पकस्य तदानीमभ्युपगमः स्यात् , अभ्युपगम्यते च तदानीं गोविषयकनिर्विकल्पकदर्शनम् , ततोऽश्वविकल्पकालेऽश्वदर्शनाभावेऽपि तत्राश्वप्रतिभासादश्वव्यवसाय इति व्यवस्था । भवतु प्रतिभासबलाद् व्यवसायव्यवस्था ततः पूर्वापरप्रतिभासात् पूर्वापरकत्वग्राहि ज्ञानमित्यत आह-प्रतिभासश्चेति-दर्शने वर्तमानमात्रस्यैव परिस्फुटः प्रतिभासो न पूर्वापरभावस्येत्यर्थः। तथा च पूर्वदर्शने पूर्वरूपं प्रतिभासत इति पूर्वरूपग्राहित्वं तस्य, यदि पूर्वापररूपानुगतं किञ्चिदेकं नीलादि प्रतिभासेत तदा प्रतिभासबलात् तद्विषयत्वं दर्शनस्य भवेत् , न च तथाविधं किञ्चित् तत्र प्रतिभासत इत्याह-न चेति-अस्य 'नीलादि' इत्यत्राऽन्वयः,