________________
अनेकान्तव्यवस्थाप्रकरणम् ]
विना पौर्वापर्येऽक्षजप्रत्ययप्रवृत्तरभावान्न प्रत्यभिज्ञाप्रामाण्यमिति चेत् ? न-पूर्वदृष्टमित्युल्लेखमन्तरेणापि पौर्वापर्ये गवतारात् , अन्यथाऽत्रुठ्यद्रूपनिश्चयानुपपत्तेः, ततो निर्विकल्पकस्य सविकल्पकस्य वा स्थैर्यग्राहिणः प्रत्यभिज्ञानस्य प्रमाणाबाधितत्वात् क्षणक्षयस्य विषयतेति तत्र निरूपकतया पूर्वदर्शनं विशेषणमिति विशिष्टज्ञानं विशेषणमन्तरेण न सम्भवतीति पूर्वदर्शनमन्तरेण पूर्वदृष्टताज्ञानस्य भवत्यसम्भव इति, वर्तमानेऽर्थे यद्यपि संयोगादिलक्षण इन्द्रियसन्निकर्षोऽस्ति तथाऽपि पूर्वापरीभावे शानलक्षण एव सन्निकर्ष इति पूर्वदर्शनसद्भावमन्तरेणाक्षजज्ञानप्रवृत्तरसम्भव इत्याह-तद विनेति-तथा चार्थसंसर्गानुसारि नोक्तप्रत्यभिज्ञानमतस्ततो नात्रुट्य
पार्थनिर्विकल्पकप्रत्यभिज्ञानप्रसिद्धिः। अर्थसंसर्गाननुसारिणस्तथाप्रत्यभिज्ञानस्य न प्रामाण्यमित्याह-न प्रत्यभिज्ञाप्रामाण्यमिति। पूर्व दर्शनसद्भावमन्तरेण पूर्वदृष्टमित्युल्लेखशालिनः प्रत्यभिज्ञानस्यासम्भवेऽपि वस्तुस्थित्या वस्तुगते पौर्वापर्ये दृशो वतारः स्यादेव. ततश्चात्रुट्यद्रुपनिर्विकल्पकानुभवलक्षणप्रत्यभिज्ञानं प्रमाणमेवेति समाधत्ते-नेति । अन्यथा अत्रुट्यद्पशब्दादिविषयकनिर्विकल्पकानुभवाभावे। तथा चोक्तदिशा निर्विकल्पकरूपमपि प्रत्यभिज्ञानं सम्भवति, अस्माभिस्तु सविकल्पकमपि प्रमाणमभ्युपेयत एव, सविकल्पकप्रत्यभिज्ञानमपि प्रमाणमेव, ततश्च निर्विकल्पकात् सविकल्पकाद् वा स्थैर्यग्राहिणः प्रत्यभिज्ञानाद् बाधितत्वान्न क्षणक्षयस्याभ्युपगमाईत्वमित्युपसंहरति-तत इति । 'प्रमाणाबाधितत्वाद्' इत्युक्त्या तस्य प्रामाण्यमावेदितं भवति, ततश्चोक्तप्रत्यभिज्ञानप्रमाणबाधितत्वमनुक्तमप्यर्थात् क्षणक्षये प्राप्तमित्यतः क्षणक्षयस्याभ्युपगमार्हत्वं नेत्यर्थः ।
विनाशस्य निर्हेतुकत्वादुत्पत्त्यनन्तरमेव भावानां विनाश इति क्षणक्षयित्वमभिमतं सौगतस्य, तश्च न, मुद्गरपातामन्तरं