________________
१४ ]
[ तत्वबोधिनीविवृतिविभूषितम् नाभ्युपगमार्हत्वम् , किश्च, विनाशस्य सहेतुकत्वात् तद्धत्वभावादेव क्षयिणामपि भावानां कियत्कालं स्थैर्यमनावाधम् , न च विनाशस्य सहेतुकत्वमसिद्धम् .. 'दण्डेन घटो भग्नः, अग्रिना काष्ठं दग्धम्' इत्याद्यनुभवस्य सावजनीनत्वात् , न चावस्तुत्वाद् विनाशस्य न कार्यत्वम् , यथा हि नोपलम्भव्यावृत्तिरेवानुपलम्भः परेषाम् , किन्तु विवक्षितोपलम्भादन्यः पर्युदासवृत्त्योपलम्भ एव. विनाशस्य घटादेर्दर्शनात् सहेतुकत्यमेव विनाशस्येति कारणविलम्बाद् विनाशलक्षणकार्यविलम्बे तावत्कालस्थायित्वमयत्नोपनतमेव भावानामिति कुतः क्षणिकत्वमित्याह-किञ्चति । तद्धत्वभावादेव विनाशहेतोः कियत्काल मसन्निधानादेव। विनाशस्य सहेतुकत्वे सति लद्विलम्बाद् विनाशविलम्बः स्यात् परं विनाशस्य सहेतुकत्वमेवा सिद्धमिति पराकृतं प्रतिक्षिपति-न चेति । निषेधे हेतुमाह-दण्डेनेति। विनाशस्य कार्यत्वे सति सहेतुकत्वं भवेत् , कार्यत्वमेव तु तस्याऽवस्तुत्वान्न सम्भवतीति तन्मतं प्रतिक्षिपति-न चेति । घटविनाशे यत् कपालमुपलभ्यते तदेव कपालं घट वनिर्मुक्तं घटविनाश इति विनाशस्य भावरूपत्वाद् वस्तुत्वमेवेत्यवस्तुत्वस्यासिद्धया न तेनाकार्यत्वं नाशस्य सिद्धयतीति निषेधे हेतुमुपदर्शयति-यथा हीति । परेषां बौद्धानाम् , एतञ्च बौद्धानां वादित्वमवलम्ब्योक्तम् , तेन प्रकृतप्रश्नकर्तुर्मीमांसकस्याऽपि मतेऽनुपलम्भस्योपलम्भव्यावृत्तिरूपत्वाभावेऽपि न तथोक्त्यसामाञ्जस्यम् । यद्यनुपलम्भव्यावृत्तिर्नाऽनुपलम्भस्तर्हि किंवरूपः स इति पृच्छति-किन्त्विति । उत्तरयति-विवक्षितोपलम्भेति-विवक्षितो यो घटोपलम्भस्तस्मादन्यो भिन्नो यः पटादेरुपलम्भः स एव घटानुपलम्भः, नोपलम्भोऽनुपलम्भ इत्यत्र नमो न प्रसज्यप्रतिषेधरूपत्वम्. किन्तु पर्युदासरूपत्वम् , पर्युदासनञः सदृग्ग्राहित्वमित्यतो घटानुपलम्भ इत्यनेन घटोपलम्भभिन्नपटाद्युपलम्भस्य ग्रहणमित्यावेदनायोक्तम्-पर्युदासवृत्येति, तदुक्तम्