________________
२३६ ]
[ तत्त्ववोधिनीविवृतिविभूषितम् वनयविभागोऽपि तथा नानुपपन्न इति वक्तुं युक्तम् , तत्र केवलनिःश्रेयसोपयोग्यभ्युदयसंवलिततदुपयोगिबोधलक्षणप्रयोजनभेदेन विभागद्वैविध्यसम्भवेऽपि प्रकृते प्रयोजनभेदाभावेनानुयोगद्वार स्थानाङ्गतवार्थमहाशास्त्राभिहितं सप्तधा नयविभागमुल्लङ्घ्य नवधा तन्करणस्य सूत्राशातनाकलङ्कितत्वादिति दिक् । अयं च सर्वोऽपि ऋजुसूत्रवचन विस्तारो बाह्यार्थाभ्युपगमपरो द्रष्टव्यः। यद्वा ऋजु-बाह्यापेक्षया ग्राहक संवित्तिभेदविकलमविभाग बुद्धिस्वरूपमकुटिलम् , तत्त्व विभागः क्वचित , क्वचित पुनः पुण्य-पापयोरपि तत्त्वान्तरतया परिगणनेन नवधा तत्त्व विभागः, तद्वन्नयविभागोऽपि सप्तघा नवधा च सम्भवतीत्याशङ्कय प्रतिक्षिपति-न चेति अस्य ‘युक्तम्' इत्यनेनान्वयः। निषेधे हेतुमाह- तत्रेति-तत्त्वस्वरूपनिरूपण इत्यर्थः । केवलेति- केवलनिश्रेयसोपयोगितत्त्वबोधलक्षणप्रयोजनेन सप्तधा तत्त्वविभजनम् , अभ्युदयसंवलितनिःश्रेयसोपयोगितत्त्ववोधलक्षणप्रयोजनेन नवधा तत्त्वविभजनमित्येवं प्रयोजनभेदेन तत्त्वविभागद्वैविध्यस्य सम्भवेऽपि नयस्य सप्तधा विभजनं नवधा विभजनमित्येवं विभागद्वैविध्यस्य प्रयोजनभेदाभावेनाऽनुयोगद्वारादिग्रन्थप्रवरसम्मतं सप्तधा नयविभागं परित्यज्य नवधा नयवि मजनकरणं दिगम्बरस्य सूत्रा शासनाकलङ्कितत्वादुपेक्ष्यमेवेत्यर्थः।
उक्तप्रकारेण यद् ऋजुसूत्रवचनविस्तारावेदनं तद् बाह्यार्थाभ्युपगमप्रवणमित्याह- आं चेति। प्रकारान्तरेण ऋजुसूत्रादिस्वरूगमुपदर्शयति- यद्वेति । स्वसंवेदनरूपत्वेन स्वापेक्षया ग्राहकसंवित्तिरूपं भवत्येव बुद्धिस्वरूपमत उक्तम्- बाह्यापेक्षयेति- बाह्यं न गृह्णाति बुद्धिरतो बाह्यापेक्षया ग्राहकसंवित्तिभेदविकलमिति । अविभागम् 'अयमत्र ग्राहाः, अयं च ग्राहकांशः' इत्येवं यो विभागस्तद्रहितम् , बाह्यस्य बहिरङ्गत्वात् तदपेक्षया ग्राहकसंवित्तिरूपत्वमेव कौटिल्यमस्याऽत