________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १३५ ननयविभागो देवानांप्रियस्याभिमतः स्यात् ?, न च पञ्च नया इत्येक आदेशः सप्तेत्यन्य इतिवत् सप्त नया इत्येक आदेशो नवेत्यन्य इत्य. स्मदभिप्रेतमिति साम्प्रतम् , भिन्नविषयाणां शब्दादीनां त्रयाणां शब्दत्वेनैक्यं स्वातन्त्र्यं चाभिप्रेत्य पञ्च-सप्तादेशभेदद्वयसम्मवेऽपि प्रकृते विषयभेदाभावेन तदसम्भवात् , न च सप्तधा नवधा च तत्व विभागगोचरः स नयस्तदानीमनपित इति, अत एव “ अर्पितव्यावहारिक'मनर्पितव्यावहारिकं च” इति भाष्यम् "अर्पितानर्पितसिद्धेः"
तत्त्वार्थ० अ० ५, सू० ] इति सूत्रे, तथा च सङ्घहन्यवहारादिध्वन्तर्भावादेव नाऽर्पिता-ऽनर्पितनययोः पृथग्विभागः, एवमेव द्रव्यथिक-पर्यायार्थिकयोः सङ्गहर्जुसूत्रादिष्वन्तर्भावात् पृथग्विभागो न युक्त इति । दिगम्बराभिप्रेतमाशङ्कय प्रतिक्षिपति-न चेति-अस्य 'साम्प्रतम्' इत्यनेनान्वयः, समभिरूढैवम्भूतनययोः शब्देऽन्तर्भावमाश्रित्य 'पञ्च नयाः' इत्येवं विभागे सत्यपि समभिरूढैवम्भूतयोः पृथग्भावमुत्प्रक्ष्य यथा 'सप्त नयाः' इत्येवं सप्तया नयविभजनम् , तथा द्रव्यार्थिकपर्यायार्थिकयोः सङ्गाहर्जुसूत्रादिष्वन्तर्भावे सम्भवत्यपि पृथग्भावमभिप्रेत्य तावुभावुपादाय नवधा विभजनमित्येवमादेशान्तरं सम्भवतीत्यर्थः। अस्मदभिप्रेतं दिगम्बरसम्मतम् । लिङ्गादिभेदेन भिन्नत्वम् , पर्यायभेदेन भिन्नत्वम् , व्युत्पत्तिनिमित्तक्रियाभेदेन भिन्नत्वं प्रत्युत्पन्नवस्तुन इत्येवं भिन्नविषयाणां शब्दादीनां शब्दत्वेनैक्यमाश्रित्य 'पञ्च नयाः' इत्येक आदेशः, शब्दादीनां त्रयाणां स्वस्वविषये स्वातन्त्र्यं चाश्रित्य 'सप्त नयाः' इत्यन्य आदेश इति पञ्चधा-सप्तधाविभजनयोः सम्भवेऽपि द्रव्यार्थिक-पर्यायार्थिकयोः सङ्गहर्जुस्त्रादितो विषयभेदाभावेन नवधा विभजनस्यायुक्तत्वादिति निषेधहेतुमुपदर्शयति- भिन्नविषयाणामिति । प्रकृते द्रव्यार्थिक-पर्यायार्थिकयोः सङ्गहर्जुसूत्रादितः पार्थक्याऽपार्थक्यचिन्तायाम् । तदसम्भवात् आदेशभेदासम्भवात्। ननु 'जीवा-ऽजीवा-ऽऽस्रव-बन्ध-संवर-निर्जरा-मोक्षास्तत्त्वम्' इत्येवं सप्तधा