________________
१३४ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् विभागकरणलम्पटदिक्पटकपटमपास्तमापभ्रांशिकप्रबन्धेऽस्माभिः । एवं हि द्रव्यार्थिकत्व-पर्यायार्थिकत्वाभ्यां सामान्यतो नयविभाग कृत्वा संग्रहर्जुसूत्रादीनां द्रव्यार्थिक-पर्यायार्थिकभेदानामेवानुपदमुपदर्शनेन विभक्तविभागः कृतः स्यात् , न त्वेकविभागः, संग्रहर्जुसूत्राधन्तर्भावशीलयोर्द्रव्यार्थिक-पर्यायार्थिकयोः पृथग्विभागस्य कर्तुमशक्यत्वात् , अन्यथाऽर्पिताऽनर्पितभेदद्वयाधिक्येनैकादशधाऽपि किं रूद्वैवम्भृतभेदादिति विभक्तस्य विभागलक्षणो द्वितीयो विभाग, तौ परित्यज्य नवधैकविभागकरणं तत् कपटमपास्तमित्यर्थः । कुत्र कैरपास्तमित्यपेक्षायामाह- आपभ्रंशिकप्रबन्धेऽस्माभिरिति। तत् कपट दिगम्बरस्य स्पष्टमेव, यतो द्रशार्थिकः पर्यायार्थिक इति पूर्वोपदर्शनेनैको विभागः प्राथमिकः, तदनन्तरं नैगमः सङहो व्यवहार इत्येवं द्रव्यार्थिकमेदानाम् , ऋजुसूत्रः शब्दः समभिरूढ एवम्भूत इत्येवं पर्यायार्थिकभेदानामुपददर्शनेन विभक्तविभाग एव कृतो भवेत्, नत्वेकविभाग इत्याह- एवं हीति । सङ्ग्रहादिनयेष्वेव द्रव्यार्थिक-पर्याया र्थिकयोरन्तर्भावात् पृथग्भावाऽभावेन पृथग्विभागस्य कर्तुमशक्यत्वेन तावुपादाय नयानां नवसङ्ख्यापरिकल्पनमयुक्तमेव दिक्पटानामित्याहसङ्ग्रहेति- आदिपदान्नैगम-व्यवहारयोः शब्द-समभिरूद्वैवम्भूतानां चोपग्रहः, तथा च सङ्ग्रहादिषु द्रव्यार्थिकस्य ऋजुसूत्रादिषु चतुर्यु पर्यायार्थिकस्यान्तर्भाव इति । अन्यथा सङ्गाहर्जुसूत्राद्यन्तर्भावशीलयोरपि द्रव्यार्थिक-पर्यायार्थिकयोः पृथग्विभजने। अर्पिता निर्पितनययोरपि पृथग्विभागस्य सम्भवेन तावुपादायैकदशधाऽपि नयविभागो दिक्पटस्याभिमतः स्यात्, न चैकादशधा नयविभजनं कृतमिति तदनिष्टं प्रसज्येतेत्याह- अर्पितेति- अनन्तधर्मात्मके वस्तुनि यो धर्मो यत्र साक्षाद् वचनेनोपात्तः स धर्मो यन्नयगोचरः सोऽर्पितनयः, यश्च धर्मोऽर्थाद गम्यते, न तु साक्षाद वचनेनोपन्यस्तः स धर्मो यन्नय