________________
अनेकान्त व्यवस्थाप्रकरणम् ]
[१०७
कारयोः सांवृतत्वम् , ग्राहकाकारस्य बोधरूपतया समनन्तरप्रत्ययजनितत्वेन ग्राह्याकारस्य च विषयार्पितत्वेन कारणान्वय-व्यतिरेकानुविधायितयाऽसांवृतत्वात् । न च निराकारमभिन्नस्वभावमेकसामग्रीजन्यं ज्ञानं सम्भवति, परमते निराकारस्य विषयाऽग्राहित्वात् , तस्माकमनेकजन्यमिति स्थितम् । नापि पूर्वसामग्रीत उत्तरा सामग्री प्रभवतीति बौद्धसिद्धान्तमनुरुध्याऽनेकमनेकमुत्पादययरूपत्वमित्येकं ज्ञानमनेककारणप्रभवं स्यादित्याशङ्कय प्रतिक्षिपतिन चेति । निषेधे हेतुमाह-ग्राहकाकारस्येति-'उत्तरोत्तरबोधस्य पूर्वपूवैबोधजनितत्वम्' इति ज्ञानस्य स्वाव्यवहितपूर्ववर्तिज्ञानस्वरूपसमनन्तरप्रत्ययजन्यत्वेन तदात्मकग्राहकाकारस्थापि समनन्तरप्रत्ययजनित्वेन, ज्ञाने ग्राहाकारस्यापि 'यदाकारो विषयस्तदाकारं ज्ञानम्' इति नियमानुरोधेन विषयः स्वाकारं ज्ञाने समर्पयतीति विषयार्पितत्वेन, 'समनन्तरप्रत्ययसत्त्वे ज्ञानस्य : ग्राहकाकारसत्त्वं समनन्तरप्रत्ययाभावे ग्राहकाकाराभावः, एवं यदाकारो विषयस्तदाकारं ज्ञानं तदाकारविषयाऽभावे · ज्ञानस्य तदाकाराऽभावः' इत्येवमन्वय-व्यतिरेकानुविधायितया ग्राह्याकार-ग्राहकाकारयोरसावृतत्वाद्-वास्तविकत्वादित्यर्थः । ननु ज्ञानं निराकारमेवेति न ग्राह्यग्राहकोभयरूपता तस्येत्यभिन्नखभावं तदेकसामग्रीजन्यमित्येकस्य तस्यानेककारणजन्यत्वं स्यादित्याशङ्कय प्रतिक्षिपति-न चेतिअस्य 'सम्भवति' इत्यनेनान्वयः । परमते बौद्धमते । तृतीयकल्पखण्डनमुपसंहरति-तस्मादिति । समुदिताः क्षणिका अनेकं कार्यमुत्पादयन्तीति तुरीयकल्पं प्रतिक्षिपति-नापीति-अस्य 'युक्तम्' इत्यनेनान्वयः। रूपज्ञानादिघटितसामग्रीतोऽनन्तरं रूपज्ञानादिघटिता सामग्री जायत इति तत्राव्यवहितपूर्ववर्तित्वाद् रूपं यथा रूपस्य कारणं तथा ज्ञानस्यापि, एवं ज्ञानमपि यथा ज्ञानस्य - कारणं तथा रूपस्थापि, तथा च ज्ञानजन्यत्वेन ज्ञानं यथा ज्ञानरूपं तथा रूपमपि