________________
२७२ अनेकान्तव्यवस्थाप्रकरणम् ।
तत् तु-प्रागुक्तं वचनम् , गुणशब्दमन्तरेणापि-रूपाद्यभिधायकगुणशब्दं विनापि, पर्यायविशेषसंख्यानं-पर्यायविशेषसंख्यावाचकम् , सिध्यति, न त्वतिरिक्तगुण-गुणार्थिकनयप्रतिपादनपरम् , तत्र गुणशब्दस्यैतावताऽधिको न्यूनो वा भाव इति गणितशास्त्रधर्मवचनत्वादिति भावः । दृष्टान्तद्वारेणामुमथं दृढीकर्तुमाह
"जह दससु दसगुणम्मि य, एगम्मि दसत्तणं समं चेव । अहियम्मि वि गुणसहे, तहेव एवं पि दट्ठव्वं ॥"
[सम्मतिकाण्ड ३, गाथा-१५] यथा दशसु द्रव्येषु, एकस्मिन् वा द्रव्ये दशगुणिते गुणशब्दातिरेकेऽपि, दशत्वं सममेव, तथैवैतदपि न भिद्यते ‘परमाणुरेकगुणकृष्णादिः' इत्येकादिशब्दाधिकगुणशब्देनापि तदधिकार्थाप्रतिपादनादिति विवृणोति-तत् त्विति । प्रागुक्तम् ‘एकगुणकालए दुगुणकालए' इत्यादिग्रन्थेनोक्तम् , गुणशब्दस्तत्रास्त्येवेति 'गुणशब्दमन्तरेणापि' इति यथाश्रुतमसङ्गतमतस्तदर्थमाह-रूपाद्यभिधायकगुणशब्दं विनाऽपीति । यदि रूपादिवाचकं न तत्र गुणपदं तर्हि किं वाचकमित्यपेक्षायामाह-पर्यायविशेषसंख्यानमिति-एतद्विवरणम्-पर्यायविशेषसंख्यावाचकमिति । नातो गुण-गुणार्थिकनययोः सिद्धिरित्याहन त्विति । नवरं 'संख्यानशास्त्रधर्म' इत्यस्याभिप्रेतमुपदर्शयति-तत्रेति-‘एगगुण कालए' इत्यादावित्यर्थः । उक्तार्थस्य दृष्टान्तद्वारा दाव्वेदिकां गाथामवतार्य दर्शयति-दृष्टान्तेति । जह० इति-"यथा दशसु दशगुणे च एकस्मिन् दशत्वं सममेव । अधिकेऽपि गुणशब्दे तथैवैतदपि द्रष्टव्यम् ॥” इति संस्कृतम् । विवृणोति-यथेतिदशसु द्रव्येषु दशत्वं सङ्ख्या दशगुणिते एकस्मिन् द्रव्ये दशत्वं सङ्ख्या, 'दशद्रव्ये' इत्युक्तौ द्रव्ये दशत्वं 'दशगुणिते द्रव्ये' इत्युक्तावपि दशत्वं प्रतीयते, एकं दशगुणितं दशरूपतामुपयातीति अतिरिक्तगुणशब्दोपादानेऽपि नाधिकोऽर्थी यथा तत्र तथा प्रकृतेऽपि एकगुणकृष्णे एककृष्णे च एकसङ्ख्यकत्वं सममेवेत्येकादिशब्दतोऽधिकस्य गुणशब्दस्य नार्थोऽतिरिक्तः कश्चिदिति संख्यानशास्त्रधर्म एव तथावचनं न तु गुणगुणार्थिकनयप्रतिपादनमत इति निर्गलितोऽर्थः । गुणस्य पर्यायानतिरिक्तत्वे "गुण-पर्या