________________
तत्त्वबोधिनीविवृतिविभूषितम्
२७१ एव, तथा च गुणाः पर्यायेभ्योऽतिरिच्यन्ते, पर्यायातिरिक्तगुणाभिधानान्यथानुपत्त्या च गुणार्थिकनयोऽपि भगवताऽर्थादुपदिष्ट एवेत्याशङ्कते
"जंपंति अत्थि समए, एगगुणो दसगुणो अणंतगुणो। रूवाइयपरिणामो, भण्णइ तम्हा गुणविसेसो ॥"
[सम्मतिकाण्ड० ३, गाथा-१३] जल्पन्ति द्रव्य-गुणान्यत्ववादिनो, अस्ति-विद्यत एव, सिद्धान्ते 'एगगुणकालए दुगुणकालए' [ ] इत्यादी रूपादौ व्यपदेशः, तस्माद् रूपादिपरिणामो गुणविशेष एवेत्यस्ति गुणार्थिकोऽपि नय उपदिष्टश्च भगवतेति । अत्राह सिद्धान्तवादी
“गुणसहमंतरेणावि, तं तु पज्जवविसेससंखाणं । सिज्झइ णवरं संखाणसत्थधम्मो न उ गुणो त्ति ॥”
[सम्मतिकाण्ड० ३, गाथा-१४]. अन्याशङ्काप्रतिपादिकां सम्मतिगाथामवतार्य दर्शयति-नन्विति-प्रथमैवकारेण पर्यायशब्दस्य सहभाविपर्यायवाचकत्वव्यवच्छेदः, द्वितीयैवकारेण गुणशब्दस्य क्रमभाविपर्यायवाचकत्वव्यवच्छेदः । तथा च गुण-पर्याययोविभिन्नशब्दवाच्यत्वव्यवस्थितौ, 'गुणाः पर्यायेभ्योऽतिरिच्यन्ते' इत्यत्र विभिन्नशब्दवाच्यत्वात् तदवाचकशब्दवाच्यत्वादिति यावत्। यदि गुणार्थिकनयो न स्यात् पर्यायातिरिक्तगुणाभिधानं सिद्धान्ते नोपपद्यतेति तदभिधानान्यथानुपपत्त्या गुणार्थिकनयोऽप्याद् भगवतोपदिष्ट एवेत्याहपर्यायातिरिक्तति । जंपंति इति-"जल्पन्ति अस्ति समये एकगुणो दशगुणोऽनन्तगुणः । रूपादिकपरिणामो भण्यते तस्माद् गुणविशेषः ॥" इति संस्कृतम् ।' विवृणोति-जल्पन्तीति । के जल्पन्तीत्यपेक्षायामाह-द्रव्य-गुणान्यत्ववादिन इति । अन्यत् स्पष्टम् । उक्ताशङ्कासमाधानप्रतिपादिकां सम्मतिगाथामवतार्य दर्शयति-अत्राहेति । गुणसद्द० इति “गुणशब्दमन्तरेणापि तत् तु पर्यवविशेषसंख्यानम् । सिध्यति नवरं संख्यानशास्त्रधर्मों न तु गुण इति ॥” इति संस्कृतम् ।