________________
२७० अनेकान्तव्यवस्थाप्रकरणम् । व्युत्पत्तिनिमित्तमपेक्ष्य, तुल्यौ (ल्यार्थी) गुण-पर्यायशब्दौ, तथापि गुणा इति पर्याया न भण्यन्ते, पर्यायविशेषवाचकस्य गुणशब्दस्य पर्यायसामान्योक्तावप्रवृत्तेः, न च गुणशब्दस्य पर्यायसामान्य एव शक्तिः कल्पनीया, यस्मात् पर्यायनयद्वारेणैव भगवता देशना कृता, न तु गुणार्थिकनयद्वारा, अतो व्युत्पत्तिनिमित्ततौल्येऽपि गुण-पर्यायशब्दयोः सामान्य-विशेषभावापन्नप्रवृत्तिनिमित्तभेदान्न पर्यायत्वमिति । ननु पर्यायशब्दः क्रमभाविधर्मवाचक एव, गुणशब्दश्च सहभाविधर्मवाचक
गुणशब्दादनेकरूपतया करणरूपार्थस्य सम्प्राप्तिस्तादृशीं व्युत्पत्तिमाह--गुण्यत इति पृथक्करणमनेकरूपतयाऽवगमनमेव । 'इति' इत्यस्येति व्युत्पत्तिनिमित्तमपेक्ष्येत्यर्थः । को तुल्यार्थावित्यपेक्षायामाह-गुण-पर्यायशब्दाविति । ननूपदर्शितव्युत्पत्तिनिमित्तापेक्षया यथा पर्यायशब्दो गुणे प्रवर्तते तथा गुणशब्दोऽपि पर्याये प्रवर्तत इति पर्यायशब्देन यथा सहभाविविशेषरूपस्य गुणस्य ग्रहणं तथा गुणशब्देन क्रमभाविविशेषरूपस्य पर्यायस्य ग्रहणं सम्भवतीति गुणशब्देन पर्यायख्यापनं कथं न भवतीत्यत आह-तथापीति-गुण-पर्यायशब्दयोस्तुल्यार्थत्वेऽपीत्यर्थः गुणा इति-गुणा इत्येवं बहुवचनान्तगुणशब्देन पर्याया न भण्यन्ते नाभिधीयन्ते व्युत्पत्तिनिमित्तमात्रमवलम्ब्यैव तयोस्तुल्यार्थत्वम् , रुढिस्तु गुणशब्दस्य सहभाविविशेष एव न क्रमभाविविशेष इति सहभाविविशेष क्रमभाविविशेषोभयानुगतपर्यायसामान्ये गुणपदस्य शक्त्यभावान्न गुणशब्देन पर्यायसामान्यकथनमित्याह-पर्यायविशेषवाचकस्येति-सहभाविपर्यायवाचकस्येत्यर्थः । ननु पर्यायशब्दस्य सहभावि-क्रमभाव्युभयानुगतपर्यायसामान्ये यथा शक्तिस्तथा तत्र गुणशब्दस्य शक्तिरस्तु, ततो गुणशब्दात् पर्यायसामान्योक्तिरुपपद्यत इत्याशङ्कय प्रतिक्षिपति-न चेति । यदि गुणशब्दस्य पर्यायसामान्ये शक्तिः स्यात् तदा पर्यायसामान्यग्राहिनयो गुणार्थिकशब्देन भगवतोपदिष्टः स्यात् न च तथोपदिष्टः, किन्तु गुणदेशनाऽपि भगवता पर्यायार्थिकनयद्वारेणैव कृतेत्यतो ज्ञायते न गुणशब्दस्य पर्यायसामान्ये शक्तिरित्याह-यस्मादिति । सामान्यविशेषभावापन्नेति-पर्यायशब्दस्य पर्यायद्वयानुगतपर्यायसामान्यं प्रवृत्तिनिमित्तं गुणशब्दस्य सहभाविपर्यायत्वं प्रवृत्तिनिमित्तमिति विभिन्न प्रवृत्तिनिमित्तकयोः गुण-पर्यायशब्दयोन पर्यायत्वमित्यर्थः ।