________________
तत्त्वबोधिनीविवृतिविभूषितम्
२६९
व्याकृता, ततः पर्याया एव वर्णादयो न गुणा इत्यभिप्रायः । अथ तत्र गुण एव पर्यायशब्देनोक्तः किं न स्यादित्यादिशङ्कायामाह -
www
“परिगमणं पज्जाओ, अणेगकरणं गुण त्ति तुल्लत्था । तहवि ण गुण ति भण्णइ, पज्जवणयदेसणा जम्हा || " [ सम्मतिकाण्ड० ३, गाथा - १२ ] परि-समन्तात् सहभाविभिः क्रमभाविभिश्च भेदैर्वस्तुनः परिणतस्य, गमनं - परिच्छेदो यः स पर्यायः, विषय - विषयिणोरभेदाद्, अनेकरूपतया वस्तुनः करणं - 'करोतेर्ज्ञानार्थत्वात्' ज्ञानम्, विषय-विषयिणोरभेदादेव गुणः, 'गुण्यते पृथक्रियतेऽनेन' इति धात्वर्थानुसाराद्, इति
6
मवतार्य दर्शयति- अथेति । तत्र “वण्णपज्जवेहिं" इत्यादौ । परिगमणं इति“परिगमनं पर्यायोऽनेककरणं गुण इति तुल्यार्थी । तथाऽपि न गुणा इति भण्यन्ते पर्ययनयदेशना यस्मात् ॥” इति संस्कृतम् । विवृणोति - परि-समन्तादिति । समन्ताद् इत्यनेन किमुक्तं भवतीत्यपेक्षायामाह - सहभाविभिः क्रमभाविभिश्च भेदैरिति भेदो विशेषः, सहभाविनो भेदा गुणाः क्रमभाविनो भेदाः पर्यायाः । एतैर्भेदैः कस्य गमनमित्यपेक्षायामाह-वस्तुनः परिणतस्येति । एवं सत्युक्तव्युत्पत्तितः सहभाविक्रमभाविविशेषनिश्चयः पर्यायः स्यान्न तु सहभाविविशेषाः क्रमभा विविशेषाश्च पर्यायाः स्युरित्यत आह-विषय-विषयिणोरभेदादिति-उक्तव्युत्पत्त्या तादृशनिश्चये पर्यायशब्दस्य प्रवृत्तौ तादृशनिश्चयरूपविषयिणा समं विषययोः सहभाविक्रमभाविविशेषयोरभेदात् तयोरपि पर्यायशब्दप्रवृत्तिरित्याशयः । पर्यायशब्दनिरुक्तिमुपदर्य गुणशब्दनिरुक्तिमुपदर्शयति- अनेकरूपतयेति । करणं ज्ञानं कथमित्याकाङ्क्षानिवृत्तये उक्तम्- करोतेर्ज्ञानार्थत्वादिति । एतावताऽनेकरूपतया वस्तुनो ज्ञानमेव गुणशब्दवाच्यं स्यान्न त्वनेकरूपा ये सहभाविनः क्रमभाविनश्च विशेषास्ते तथेत्यत आहविषय - विषयिणोरभेदादेव गुण इति उक्तज्ञानरूपविषयिणोऽनेकरूपा ये क्रमभाविसहभाविविशेषलक्षणविषयास्तयोर्विषय-विषयिणोरभेदादेव तज्ज्ञानस्य गुणशब्दवाच्यत्वे विषयस्याप्युक्तज्ञानादभिन्नस्य गुणशब्दवाच्यत्वमित्यनेकरूपाः सहभाविनः क्रमभाविनश्च विशेषा गुणशब्दवाच्या भवन्तीत्याशयः । यादृशीं व्युत्पत्तिमाश्रित्य