________________
तत्त्वबोधिनीविवृतिविभूषितम् २७३ द्रष्टव्यम् । न चैव गुणानां पर्यायानतिरेके वाचकचक्रवर्तिसूत्रं “गुणपर्यायवद् द्रव्यम्" [ तत्त्वा० अ० ५, सू० ] इति विरुध्यते, युगपदयुगपद्भाविपर्यायविशेषप्रतिपादनार्थत्वात् तस्य, सहभाविधर्मवाचकगुणशब्दसमभिव्याहृतस्य पर्यायशब्दस्य धर्ममात्रवाचकस्यापि 'गो-बलीवर्द'न्यायेन तदतिरिक्तधर्मप्रतिपादकत्वे दोषाभावात् , नहि काल्पनिको गुण-पर्याययोर्भेदो वास्तवं तदभेदं विरुणद्धि, कल्पनाबीजं च तत्र तत्र प्रदेशे व्युत्पत्तिविशेषाधानमेव । अत एव
"गुणाणमासओ दव्वं, एगदव्वस्सिया गुणा।
लक्खणं पज्जवाणं तु, उभओअस्सिया भवे ॥६॥". इत्याद्युत्तराध्ययन[अ० २८ ]वचनम् , “दव्वनामे गुणनामे पज्जवणामे" [ ] इत्याद्यनुयोगद्वारवचनं च शिष्यव्युत्पत्तिविशेषाय यवद् द्रव्यम्” इति तत्त्वार्थसूत्रे पर्यायशब्दव्यतिरिक्तगुणशब्दोपादानं पर्यायव्यतिरिक्तगुणप्रतिपादनपरं यदुपलभ्यते तद्विरोधो दुरुद्धर इत्याशङ्का प्रतिक्षिपति-न चैवमिति । एवम् इत्यस्यैवोपवर्णनम्-'गुणानां पर्यायानतिरेके' इति । 'गुण-पर्यायवद् द्रव्यम्' इत्यत्र गुणशब्दः सहभाविपर्यायविशेष प्रतिपादयति, पर्यायसामान्यवाच्यपि पर्यायशब्दो गुणशब्दसमभिव्याहृतः क्रमभावि पर्यायविशेष प्रतिपादयतीत्येवमुपगमे उक्तसूत्रविरोधाभावादित्याह-युगपदयुगपद्भावीति। गो-बलीवर्दन्यायेनेति-गोसामान्यवाचकस्यापि गोशब्दस्य गोविशेषबलीवर्दप्रतिपादक-बलीवर्दपदसमभिव्याहृतस्य यथा बलीवतिरिक्तगवप्रतिपादकत्वं तथेत्यर्थः । तदतिरिक्तति-सहभाविधर्मातिरिक्तेत्यर्थः । एवं सति सहभाविपर्यायत्वसहभाविपर्यायातिरिक्तपर्यायत्वाभ्यां गुण-पर्याययोर्भेदः, स च काल्पनिको न पर्यायत्वेन तयोरभेदं वास्तविकं विरुणद्धि, काल्पनिकभेदमवलम्ब्यैव च सूत्रे गुण-पर्याययोः पृथगुपादानमित्याह-नहीति-अस्य 'विरुणद्धि' इत्यनेनान्वयः । 'पर्यायवद् द्रव्यम्' इत्युक्त्यापि सामञ्जस्ये किमर्थ कल्पनया तयोर्भेदमुपजीव्य पृथगभिधानमित्याशङ्काशङ्कसमुद्धारायाह-कल्पनाबीजमिति । प्रदेशे सिद्धान्तैकदेशे । अत एव व्युत्पत्तिविशेषाधानस्य कल्पनाबीजत्वादेव । गुणाण इति-गुणानामाश्रयो द्रव्यमेकद्रव्याश्रिता
अ. व्य. १८