________________
तत्त्वबोधिनीविवृतिविभूषितम् अथवा, सत्त्वमर्थान्तरभूतं साधारणत्वात् , निजं घटत्वमसाधारणत्वात् , ताभ्यां प्रथम-द्वितीयौ, अभेदेन ताभ्यां निर्दिष्टो घटोsवक्तव्यो भवति, तथाहि-यदि सत्त्वमनूद्य घटत्वं विधीयते तदा सत्त्वस्य घटत्वेन व्याप्तेर्घटस्य सर्वगतत्वप्रसङ्गः, तथाऽभ्युपगमे प्रतिभासबाधा व्यवहारविलोपश्च, तथाऽसत्त्वमप्यनूद्य यदि घटत्वं विधीयते तदा प्रागभावादिचतुष्कस्य घटत्वेन व्याप्तेर्घटत्वप्रसङ्गः, अथ घटत्वमनूद्य सदसत्त्वे विधीयेते तदा घटत्वं यत् तदेव सदसत्त्वे इति घटमात्रं ते प्रसज्येयाताम् , तथा च पटादीनां प्रागभावादीनां
दशमं प्रकारमुक्तभङ्गत्रयसमर्थकं दर्शयति-अथवेति । ताभ्यां घटत्वसत्त्वाभ्याम् , घटत्वेनाऽस्तित्वमुपादाय 'स्यादस्त्येव घटः' इति प्रथमो भङ्गः, सत्त्वेनासत्त्वं समाश्रित्य 'स्यान्नास्त्यव घटः' इति द्वितीयो भङ्गः । ताभ्यां घटत्वसत्त्वाभ्याम् , घटत्वापेक्ष्यसत्त्व-सत्त्वापेक्ष्याऽसत्त्वाभ्यां युगपदादिष्टस्य केनापि शब्देन न वक्तव्यत्वमिति ‘स्यादवक्तव्य एव घटः' इति तृतीयो भङ्ग इत्यर्थः । तृतीयभङ्गमेवोपपादयतितथाहीति । सत्त्वमनूद्येति-यः सन् स घट इत्येवं विधाने सत्त्वस्य व्याप्यत्वं घटत्वस्य च व्यापकत्वं प्रतीयते, तथा च सति यत्र यत्र सन् तत्र तत्र घट इति सतः सर्वगतत्वे घटस्यापि सर्वगतत्वप्रसङ्ग इत्यर्थः । भवतु घटस्य सर्वगतत्वं का नो हानिरित्यत आह-तथाभ्युपगम इति । घटस्य सर्वगतत्वाभ्युपगम इत्यर्थः । प्रतिभासबाधा यः कुत्रचिदघटप्रतिभासः स न स्यात् । व्यवहारविलोपश्च कस्यचिद् ‘घटः' इत्येवं व्यवहारः, कस्यचित् तु न 'घटः' इति व्यवहारः, किन्तु "पटो मठः' इत्यादिव्यवहारः, इत्थं विभिन्नस्य व्यवहारस्य विलोपश्च । तथेति-एवमसत्त्वमप्यनूद्य यदि घटत्वं विधीयते, योऽसन् स घट इत्येवं विधानम् , तदाऽसत्त्वस्य व्याप्यत्वं घटत्वस्य च व्यापकत्वं स्यात् , तत्त्वे च असत्त्ववति प्रागभावादिचतुष्के प्रागभाव-ध्वंसाऽत्यन्ताभावा-ऽन्योन्याभावखरूपे घटत्वस्य विधानतस्तादृशचतुष्कस्य घटत्वप्रसङ्ग इत्यर्थः । घटत्वमनूधेति-यो घटः स सन् असंश्चेत्येवं यदि विधीयते तदा य एव घटः स एव सन् असंश्चेति सदसती घटमात्रं प्रसज्येयातामिति घटभिन्नं पटादिकं प्रागभावादिकं च न स्यात् , तथा च सति घट एव सन्मात्र