________________
२२२ अनेकान्तव्यवस्थाप्रकरणम् । चाभावप्रसक्तिरिति प्राक्तनन्यायेन विशेषणविशेष्यलोपात् ‘सन् घटः' इत्येवमप्यवक्तव्यः 'असन् घटः' इत्येवमप्यवक्तव्यः, न चैतत् , तातोऽवाच्यः, अनेकान्तपक्षे तु कथञ्चिदवाच्यः, न तु सर्वथा, अभेदवादकृततदोषस्य भेदवादेन परिहारादिति न कश्चिद् दोषः, न चाभेदैकान्तेऽपि घटत्वमनूद्य सत्त्वासत्त्वयोः समवाय-विशेषणताभ्यां विधानानायं दोष इति वाच्यम् , अतिरिक्तसमवाय-विशेषणतयोर्मानाभावेन भेदैकान्तस्यैवाऽवाच्यत्वादिति दिग् ॥ १० ॥
यद्वा, व्यञ्जनपर्यायोऽर्थान्तरभूतस्तदतद्विषयत्वात् तस्य, घटार्थपर्यायस्त्वन्यत्राऽवृत्तेर्निजः, ताभ्यां प्रथम-द्वितीयौ, अभेदेन ताभ्यां
मेव, असदेव घटमात्रमेवेत्यादिप्रसङ्गे भेदे विशेष्यविशेषणभावो नामेद इत्यतः सन् घट इत्येवमपि वक्तव्यं न भवति, असन् घट इत्येवमपि वक्तव्यं न भवति, न चेत्थमुररीक्रियत इत्यतस्तथाविवक्षायामवाच्य एव घटः, अनेकान्तपक्षे तु सद्घटयोरसद्-घटयोश्चाऽमेदवद् मेदोऽपीति कथञ्चिदवाच्यः, न तु सर्वथाऽवाच्यः । अभेदवादकृतदोषो यदि सर्वथा सलग्न एव स्यात् तदा वाच्यत्वं न भवेदपि, न चैवम् , तस्य भेदवादेन परिहारसम्भवादित्यर्थः । 'न च' इत्यस्य ‘वाच्यम्' इत्यनेनान्वयः । 'न चाभेदैकान्तेऽपीति' इति स्थाने 'न च भेदैकान्तेऽपि' इति पाठो युक्तः । अन्यद् व्यक्तम् ।
उक्तभङ्गत्रयोपपादकमेकादशप्रकारमाह-यद्वेति । व्यञ्जनपर्यायः शब्दप्रवृत्तिनिमित्तघटत्वसामान्यात्मा पर्यायः । तदतद्विषयत्वात् प्रकृतार्थ-तदन्योभयविषयत्वात् । तस्य व्यञ्जनपर्यायस्य । घटार्थपर्यायस्तु कम्वुग्रीवात्मकघटरूपार्थपर्यायः पुनः । अन्यत्र तत्तद्धटात्मकार्थातिरिक्ते । अवृत्तेः असद्भावात् । ताभ्यां व्यञ्जनपर्याया-ऽर्थपर्यायाभ्याम् । प्रथम-द्वितीयौ अर्थपर्यायात्मना सत्त्वमुपादाय 'स्यादस्त्येव घटः' इति प्रथमो भङ्गः, व्यञ्जनपर्यायात्मनाऽसत्त्वमङ्गीकृत्य 'स्यान्नास्त्येव घटः' इति द्वितीयो भङ्ग इत्यर्थः । अमेदेनेति-अर्थ-व्यञ्जनपर्यायाभ्यामभेदेन निर्देशे सति तथानिर्दिष्टस्य वस्तुनो न कस्यापि पदस्य वाच्यत्वं सम्भवतीति ‘स्यादवक्तव्य एव घटः' इति तृतीयो भङ्ग इत्यर्थः । तृतीयभङ्गोपपादनाय हेतुमुपदर्शयति