________________
तत्त्वबोधिनीविवृतिविभूषितम् २२३ निर्देशेऽवक्तव्यः, यतोऽत्रापि यदि व्यञ्जनमनूद्य घटार्थपर्यायविधिस्तदा तस्याऽशेषघटात्मकताप्रसक्तिरिति भेदनिबन्धनतद्व्यवहारविलोपः, अथार्थपर्यायमनूद्य व्यञ्जनपर्यायविधिस्तदा प्रसिद्धविशेषानुवादेन घटत्वसामान्यविधानात् तस्याकार्यत्वम् , एवं च घटस्याभावादवाच्यः, अनेकान्तपक्षे तु युगपदभिधातुमशक्यत्वात् कथञ्चिदवाच्यः ॥११॥
यद्वा, सत्त्वमर्थान्तरभूतम् , तस्य विशेषवदेकत्वादनन्वयिरूपता,
यत इति । अत्रापि अर्थ-व्यञ्जनपर्यायाभ्यां मेदेन वस्तुनो निर्देशेऽपि । व्यञ्जनमनूोति-यो व्यञ्जनपर्यायः सोऽर्थपर्याय इत्येव विधानमित्यर्थः । तस्य व्यञ्जनपर्यायस्य । मेदेति-व्यञ्जनपर्याय एव घटार्थपर्याया न, अन्यो घटादिपर्याय इति व्यञ्जनपर्यायतो यो घटाद्यर्थपर्यायस्य भेदस्तन्निबन्धनो यस्तद्व्यवहारो घटार्थपर्यायव्यवहारः 'नीलो घटः, रक्तो घटः, कम्बुग्रीवादिमान् घटः' इत्यादिरूपस्तस्य विलोप उच्छेदप्रसङ्ग इत्यर्थः । अथ यदि । अथैति-योऽर्थपर्यायः स व्यञ्जनपर्याय इत्येवं विधिरित्यर्थः । तदा तथाविधाने । प्रसिद्धति-प्रसिद्धा ये तत्तद्घटादिव्यक्तिलक्षणा विशेषास्तेषामनुवादेन, घटत्वसामान्यात्मकव्यञ्जनपर्यायस्य विधानात् , सर्वे घटादिव्यक्तिलक्षणविशेषास्तदानीं घटत्वसामान्यस्वरूपव्यञ्जनपर्यायस्वरूप एव प्रविष्टा इति घटत्वसामान्यस्य नित्यत्वात् , तस्य अर्थपर्यायस्य, अकार्यत्वं कार्यत्वं न स्यात्, एवं च अर्थपर्यायस्य व्यञ्जनपर्यायात्मनोऽकार्यत्वव्यवस्थितौ च । घटस्याभावात् दण्डादिना समुत्पद्यमानस्यैव घटस्य घट इति व्यपदेश इति तस्य घटस्याभावादवाच्य इत्यर्थः । अनेकान्तपक्षे तु नित्याऽनित्यस्वरूपस्य घटस्य सामान्यात्मना नित्यस्य व्यक्त्यात्मनाऽनित्यस्य कार्यत्वं सम्भवतीति नाभावादवाच्यत्वम् , किन्तु युगपदभिधातुमशक्यत्वात् कथञ्चिदवाच्यत्वमित्याह-अनेकान्तपक्षे विति-सर्वथाऽवाच्यत्वे त्ववक्तव्यशब्देनापि व्यपदेशो न भवेत् , भवति च तथाव्यपदेश इत्यतः कथञ्चिदवाच्य इत्याशयः।
तृतीयभङ्गसमर्थकं द्वादशप्रकारमुपदर्शयति-यद्वेति । तस्य सत्त्वस्य । विशेषपदिति-विशेषा यद्यप्यनन्तास्तथापि प्रत्येकं विशेषस्तु एक एव, तथा च प्रत्येक विशेषो यथैकत्वादेकव्यक्तिमतत्वेनान्यव्यक्त्यनन्वयिरूपस्तथा स्वरूपसत्त्वमपि प्रत्येक