________________
अनेकान्तव्यवस्थाप्रकरणम् ।
क्रियाक्षमादिरूपेणेव घटः स्यात् तर्हि पटादीनामपि घटत्वप्रसक्तिः, तद्वद् यद्युपादेयादिरूपेणाप्यघटः स्यात्, तदाऽन्तरङ्गस्य वक्तृश्रोतृगतहेतुफलभूतघटा कारावबोधकविकल्पोपयोगस्याप्यभावे घटस्याप्यभावप्रसङ्ग इत्यवाच्यः, एकान्ताभ्युपगमेऽयमेव प्रसङ्ग इत्यवाच्यः ।। ८ ।।
२२०
अथवा, तत्रैवोपयोगेऽभिमतार्थावबोधकत्वानभिमतार्थानवबोधकत्वतः सदसत्त्वात् प्रथम- द्वितीयौ, ताभ्यां युगपदादिष्टोऽवाच्यो, विवक्षितार्थप्रतिपादकत्वेनेवेतरेणाऽपि यदि घटः स्यात् तर्हि प्रतिनियतोपयोगाभावः, तथाऽभ्युपगमे विविक्तरूपोयोगप्रतिपत्तिर्न भवेत्, तदुपयोगरूपेणाऽपि यद्यघटो भवेत् तदा सर्वाभावोऽविशेषप्रसङ्गो वा, न चैवम्, तथाऽप्रतीतेः, एकान्तपक्षेऽप्ययमेव प्रसङ्ग इत्यवाच्यः ।। ९ ।।
इत्येवं वाच्यः स्याद् यथोपादेया - ऽन्तरङ्गा -ऽर्थक्रियाक्ष्मादिरूपेग तथा तर्हि पटादीनामपि हेयादिरूपसमाकलितानां घटत्वप्रसङ्ग इत्यर्थः । तथादिष्टोऽघट इत्येवमपि न वाच्य इत्याह- तद्वदिति - - यथा हेय - बहिरङ्गाऽनर्थक्रियाकारिरूपेणा घटस्तथेत्यर्थः । तथाऽघटत्वे यदनिष्टं तदुपदर्शयति-तदान्तरङ्गस्येति ।
उक्तभङ्गत्रयसमर्थकं नवमं प्रकारमुपदर्शयति - अथवेति । तत्रैवोपयोगे घटएवोपयोगरूपतयाऽभिमते । अभिमतेति-अभिमतार्थावबोधकत्वेनोपयोगलक्षणघटस् सत्त्वमुपादाय 'स्यादस्त्येव घट:' इति प्रथमो भङ्गः, अभिमतार्थानवबोधकत्वमर्थान्तरम्, तद्रूपेणासत्त्वं समाश्रित्य 'स्यान्नास्त्येव घटः' इति द्वितीयो भङ्गः, ताभ्यां युगपदादिष्टः केनापि शब्देन वक्तुमशक्य इति 'स्यादवक्तव्य एव घटः' इति तृतीयो भङ्ग इत्यर्थः । ताभ्यां युगपदादिष्टस्य घट इत्येवं वक्तव्यत्वं न भवतीत्युपपादयतिविवक्षितार्थेति-विवक्षितार्थावबोधकत्वेन यथा घट इत्येवं वक्तव्यस्तथाऽविवक्षितार्थानवबोधकत्वेनापि यदि घट इत्येवं वक्तव्यः स्यात् तदा प्रतिनियतोपयोगो न भवेत्, एवं च प्रतिनियतोपयोगप्रतिपत्तिर्न स्यादित्यर्थः । एवं तथाऽऽदिष्ट उपयोगात्मको घटो नाऽघट इत्येवं वक्तव्य इत्याहह - तदुपयोगरूपेणापीति । न चैवं सर्वाभावोऽविशेषश्च न । तथाप्रतीतेः सर्वशून्यतयाऽविशिष्टतया च प्रातीत्यभावात् ।