________________
तत्त्वबोधिनीविवृतिविभूषितम्
३४३ अनेकान्तवादस्य विश्वव्यापकत्वरूपमाहात्म्यप्रदर्शयित्री प्रशस्तिः।
विना यं लोकानामपि न घटते संव्यवहृतिः, __समर्था नैवार्थानधिगमयितुं शब्दरचना । वितण्डा चाण्डाली स्पृशति च विवादव्यसनिनं,
नमस्तस्मै कस्मैचिदनिशमनेकान्तमहसे ॥१॥ -- इति श्री अनेकान्तवादस्य सर्वदर्शनसूत्रणसूत्रधाराभ्युपगतानेकान्ततत्त्वप्ररूपकत्वादिमाहात्म्यावेदिकां प्रशस्ति प्रश्नाति विना यमिति-तस्मै कस्मैचिदनिशमनेकान्तमहसे नमः, यमेकान्तं विना लोकानां संव्यवहृतिरपि न घटते, यं विना शब्दरचनाऽर्थानधिगमयितुं नैव समर्था, च पुनः, यं विना वितण्डा चाण्डाली विवादव्यसनिनं स्पृशतीत्यन्वयः । तस्मै सकललोकसंव्यवहाराभावप्रयोजकाभावप्रतियोगिने शब्दरचनागतार्थाधिगमसामर्थ्याभावप्रयोजकाभावप्रतियोगिने वितण्डाचाण्डालीनिष्ठविवादव्यसनिस्पर्शकर्तृत्वप्रयोजकाभावप्रतियोगिने च, कस्मैचित् अनिर्वचनीयाय, यत एतावन्तोऽस्य गुणा इत्येवं निर्वचनं न सुरगुरुणाऽपि कर्तुं शक्यत इति । अन्यानि सूर्य-चन्द्रप्रभृतीनि महांसि कतिपयकालमभिव्याप्य प्रकाशन्ते, अनेकान्तमहस्तु सर्वकालं सर्ववस्त्वभिव्याप्य प्रकाशत इति सर्वमहसामिदमेव प्रधानमित्यनिशमनेकान्तमहसे, यतो यत् किमपि वस्तु यत्र कुत्रापि देशे यदा कदापि काले येन केनापि प्रकाशेन प्रकाशितं भवति तदनेकान्तसम्पृक्तमेव, प्रकाशकोऽपि च सर्वोऽनेकान्तस्वरूपतामापन्न एव प्रकाशस्वभावतामश्चतीति । नमः अस्त्विति क्रियापदमत्र बोध्यम् , अस्मज्ज्ञानीयमदवधिकोत्कृष्टत्वनिष्ठप्रकारतानिरूपितविशेष्यतावदनेकान्तमह इत्यर्थः, इत्थं प्रधानत्वेऽपि नमश्शब्दसमभिव्याहारात् तद्वाचकशब्दस्य चतुर्थ्यन्तत्वमिति । 'अनिशम्' इति 'नमः' इत्यत्राप्यन्वेति, तेनानेकान्तमहसे सर्वदा नमस्कारोऽस्त्वित्यप्यर्थो लभ्यते । लोके एक एव पुरुषः 'अयं पिता, अयं पुत्रः, अयं मातुलः, अयं भागिनेयः' इत्येवं यद् व्यवह्रियते तदेकस्यापेक्षाभेदेनानेकधर्मात्मकत्वं विना न सम्भवति, एक एव च घटादिः 'अयं घटः, इयं पृथिवी, इदं द्रव्यम् , अयं गुणवान् , अयं क्रियावान् , अयं जलाहरणसमर्थः' इत्येवं यद् व्यवह्रियते तत् तस्यानेकान्तत्वं विना न घटते इति युक्तमुक्तम्विना यं लोकानामपि न घटते संव्यवहृतिरिति । परस्यार्थविशेषावबोधनाय वाक्यं प्रयुज्यते, वाक्यं च सर्व तत्तत्पदसमभिव्याहृतापरपदरूपात्मकशब्दरचनात्मक मेव, पदानि च प्रतिनियतार्थविशेषे सङ्केतितान्येवार्थविशेषावबोधं जनयन्ति, सङ्केतश्च