________________
१३० ]
[ तत्त्वबोधिनीविवृतिविभूषितम् क्षणमात्रावस्थिति वस्तु लिङ्गादिभेदाद् भिन्नं शब्दो वृक्षाच्छाखामिव सूक्ष्ममभिमन्यते, सम्मभिरूढः शब्दाभिमतं वस्तु सञ्ज्ञाभेदादपि भिद्यमानं शाखातः प्रशाखामिव सूक्ष्मतरमध्यवस्यति, तदेव समभिरूढाभिमतं वस्तु एवम्भूतः क्रियाभेदाद् भिन्नं प्रशाखातः प्रतिशाखामिव सूक्ष्मतममधिगच्छतीति । एतच्च ऋजुसूत्रपदव्युत्पत्तिनिमित्तं प्रत्युत्पन्नग्राहित्वं पर्यायनयत्वमात्रपर्यवसनमभिप्रेत्य इत्यनेन सम्बन्धः, समभिरूढ इत्यस्य ‘सूक्ष्मतरमध्यवस्यति' इत्यत्रान्वयः, सूक्ष्मम् इत्यस्य 'लिङ्गादिभेदाद् भिन्नम्' इति विशेषणम् , सूक्ष्मतरम् इत्यस्य 'संज्ञाभेदादपि भिद्यमानम्' इति विशेषणम् , हेतुभूत चैतादर्श विशेषणम् , तेन यतो लिङ्गादिभेदाद् भिन्नमत: सूक्ष्मम् , यतः संज्ञाभेदादपि भिद्यमानमतः सूक्ष्मतरमिति, एवमग्रेऽपि, एवम्भूतः इत्यस्य 'सूक्ष्मतममधिगच्छति' इत्यनेनान्वयः। क्रियाभेदाद् भिन्नमिति 'सूक्ष्मतमम्' इत्यस्य विशेषणम् । ननु पूर्व सम्मतिगाथार्थकरणे शाखा-प्रशाखा-प्रतिशाखानां क्रमशो स्थूल-सूक्ष्म सूक्ष्मतरभेदोपवर्णनेन सादृश्यं शब्द-समभिरूढवम्भूतेषूपदर्शितम् अधुना तेष्वेव सूक्ष्म-सूक्ष्मतर-सूक्ष्मतमभेदोपवर्णनं पूर्वापरविरोधाघ्रात मिति चेत् ? न-पूर्व प्रथमावधित्वेन शब्दनयः समुपात इति तस्य स्थूलतया वर्णनात् तदुत्तरयोः सूक्ष्म-सूक्ष्मतरभेदेनोपवर्णनम् , अधुना पुनः प्रथमावधित्वेन ऋजुसूत्रनयः समुपात्त इति तस्य स्थूलतया वर्णनात् तदुत्तराणां सूक्ष्म-सूक्ष्मतर सूक्ष्मतमभेदेनापवर्णनमिति विरोधाभावात्। ऋजुसूत्रस्य स्वभिन्ननयमात्रतो व्यावर्तकं यल्लक्षणं तन्न शब्दादिषु त्रिषु नयेष्वतस्तादृशलक्षणाश्रयणे न शब्दादिनयेषु ऋजुसूत्रशाखाप्रशाखादित्वसम्भवोऽत आह - एतच्चेति-शब्दादिनयेषु ऋजुसूत्रशाखा. प्रशाखादिस्वरूपोपवर्ण चेत्यर्थः। ऋजुसूति-ऋजु-अतीतात्वा-नागतत्वलक्षणकौटिल्यपरिहारेण प्रत्युत्पनं वस्तु सरलम् , तत् सूत्रयति