________________
७८ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् तथा भावाऽभावयोः कार्यत्वाऽविशेषेऽपि सदसत्प्रतीतिविषयतया भेदः सेत्स्यतीति चेत् ? न-असत्प्रत्ययविषयतया शशशृङ्गादिवत् कार्यताया अप्यस्य दूरोत्सारणात् , अथ खहेतुभावे भावादस्य कार्यता, कथं न सत्प्रत्ययविषयता ? यो हि 'भवति' इति प्रतीयते स 'सन्' इत्यपि प्रतीयते, नहि 'अस्ति-भवति सद्भाव' इत्यादिशब्दानां कश्चिदर्थभेदो विद्वद्भिरिष्यते । अभावात्मकतयैवासौ भवतीत्यदोष इति चेत् ? न-व्याहतत्वात् , न भवतीति ह्यभाव उच्यते, स कथं भवतीति ? । स्वग्राहिणि ज्ञाने प्रतिनियतेन रूपणाऽप्रतिभासनादभाव इत्येतदपि न वक्तव्यम् , अत्यन्तपरोक्षचक्षुप्रसिद्धरिति समाधत्ते-नेति । अस्य ध्वंसस्य । यदि च स्वहेतुतो भवनाद् ध्वंसस्य कार्यत्वं तर्हि कार्यत्वं यत्र तत्र सत्प्रतीतिविषयत्वमिति नियमतो ध्वंसस्य सत्प्रतीतिविषयत्वसिद्धितो भावत्वप्रसिद्धिरपि स्यादित्याह-अथेति-यदीत्यर्थः । अस्य ध्वंसस्य । भवतीत्यस्य योऽर्थः स एव सदित्यस्याऽपीति भवतीत्येवं प्रतीयमानस्य ध्वंसस्याऽवश्यं सत्प्रतीतिविषयत्वमित्युपपाद्य दर्शयति-यो हीति। भवनं ध्वंसस्य प्रतीयमानं नापलप्यतेऽस्माभिः, किन्त्वभावात्मकतयैवास्य भवनमित्यभावत्वं तस्येति शङ्कते-अभावात्मकतयैवेति । असो ध्वंसः । निषेधहे। व्याहतत्वमेव सङ्गमयति-न भवतीति । स्व ग्राहिणि ज्ञाने विनाशः प्रतिनियतेन रूपेण न भासत इत्येतावता प्रतिनियतेन रूपेणाऽनवभासमानत्वरूपमभावत्वमस्येत्येतदपि परवचनं न समीचीनमित्याह-स्वग्राहिणीति । चक्षुरादयोऽतीन्द्रियाः पदार्थाः स्वग्राहिणि ज्ञाने प्रतिनियतेन रूपेण न प्रतिभासन्त इति तेषामभावत्वमुक्तकल्पनायां प्रसज्यत इति निषेधहेतुमुपदर्शयतिअत्यन्तपरोक्षेति-अतीन्द्रियेत्यर्थः । यो हि सकारणकस्तस्य कारणभेदाद् भेद उपलभ्यते, यथा-मार्दवघटाद् मृत्त्वजात्याक्रान्ताद्