________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[७ भावः, अङ्घरादेरपि भावशब्दप्रवृत्तिनिमितं नाऽपरमुपलभ्यते, तचेदभावेऽस्ति कथं न भाव इति ? । अर्थक्रियासामर्थ्य भावशब्दप्रवृत्तिनिमित्तम् , तच्चाभावे नास्तीति चेत् ? न-सामर्थ्य विकलस्य प्रतीतिविषयत्वाऽयोगात् , प्रतीतिजनकत्वे सर्वसामर्थ्याऽयोगाऽसिद्धः । अथ यथा घट-पटादीनां भेदः प्रतिनियतज्ञानविषयतया,
नमेव भावपदप्रवृत्तिनिमित्तमङ्कुरादावपि न त्वन्यत् , तच्च भवनं यदि ध्वंसेऽभ्यपेयते तहि भाव एव सोऽभ्युपेयः स्यान्नाभाव इत्याह-अकुरादेरपीति । नाऽपरं भवनव्यतिरिक्तं न । 'कथम् ' इत्यत्र किम आक्षेपार्थकत्वान्निषेधपर्यवसायित्वेन नद्यस्य प्रकृतार्थगमकत्वेन ध्वंसो भाव एव स्यादित्यर्थः। अर्थक्रियाकारित्वमेव भावपदप्रवृत्तिनिमित्तम्, तञ्च ध्वंसे नास्तीति न ध्वंसो भाव इत्याशङ्कते-अर्थक्रियासामर्थ्यमिति। तच्च अर्थक्रियासामर्थ्य च । प्रत्यक्षजनकस्यैव प्रत्यक्षविषयत्वमिति नियमेन ध्वंसस्य प्रत्यक्षात्मकप्रतीतिजनकत्वाभावे प्रत्यक्षविषयत्वमेव न स्यादिति प्रतीयमानत्वं ध्वंसस्याऽभ्युपगच्छता प्रतीतिलक्षणार्थक्रियासामर्थ्य तस्य स्वीकरणीयमित्येवमपि भाव एव स स्यादिति समाधत्ते-नेति । सर्वसामर्थ्यविकलस्य कार्यमात्रं प्रत्येवाकारणीभूतस्य ध्वंसस्य प्रतीतिविषयत्वानुरोधेन प्रतीतिं प्रति जनकत्वस्य ध्वंसे स्वीकारे तुन सर्वसामर्थ्यरहितत्वमित्याह-प्रतीतिजनकत्व इति । भवनधर्मत्वाविशेषेऽपि घटत्व पटत्वादिविरुद्धधर्माध्यासितत्वेन प्रतीयमानत्वाद् घट-पटादीनां यथाऽन्योऽन्यं भेदस्तथा ध्वंसस्य कार्यत्वेऽपि असप्रतीतिविषयत्वेनाऽभावत्वम् , घटपटादीनां च सत्प्रतीतिविषयत्वेन भावत्वमित्येवं भावाऽभावयोर्भेदः सिध्येदित्याशङ्कते-अथेति । यद् असत्प्रतीतिविषयस्तद् न कार्यम् , यथा शशशृङ्गादि, ध्वंसश्चाऽसत्प्रतीतिविषय इति न कार्यमित्येवं कार्यत्वाऽभावस्यैव तत्र