________________
wwwmre
१९६ अनेकान्तव्यवस्थाप्रकरणम्।
अथ 'कालत्रये प्राणचतुष्टयधारी यः स व्यवहारतो जीवः' इति व्युत्पाद्य 'यस्य द्वे चेतने स निश्चयतो जीवः' इति वाग्भङ्गया कर्मोपाधिनिरपेक्षशुद्धद्रव्यार्थिकलक्षणनिश्चयेन सिद्ध-संसारिणामविशेषेण जीवत्वव्युत्पादने न क्रमभङ्गादिदोषलेशोऽपीति चेत् ? न तेन सर्वेषां सामान्यतो जीवत्वे सिद्धे 'यस्य' इति विशेषोपग्रहानुपपत्तः, नहि शुद्धनयमते एकः शुद्ध एकश्वाशुद्धोऽस्ति, अत एव
"मग्गणगुणठाणेहि य, चउदसहिं हवंति तह असुद्धणया । विण्णेया संसारी, सव्वे सुद्धा हु सुद्धणया ॥”
[द्रव्यसङ्ग्रहगाथा-१३] इति परेणैवाग्रे प्रतिपादितम् , अस्मत्प्रावचनिका अपि च सामायिकनयविचारे स्वजात्या शुद्धस्य सर्वस्यैवात्मनः सामायिकरूपतां सङ्ग्रहनयापेक्षया प्रतिपादयन्तीत्यन्यत्र विस्तरः ।
अत्रार्थे श्रुतकेवलिनो भगवतो भद्रबाहुखामिनो वचनं संवादकतया दर्शयतितदाहेति। एएहिं० इति-“एभिदृष्टिवादे प्ररूपणा सूत्रार्थकथना च इह पुनरनभ्युपगमोऽधिकारस्त्रिभिरुत्सन्नम् ॥” इति संस्कृतम् । एभिः नैगमादिभिर्नयैः सप्रमेदैः, दृष्टिवादे सर्ववस्तुप्ररूपणा सूत्रार्थकथना च, क्रियत इति शेषः। इह पुनः कालिकश्रुते, अनभ्युपगमः नावश्यं नयैर्व्याख्या कार्या । यदि च श्रोत्रपेक्षया नयविचारः क्रियते तदा त्रिभिराद्यैः, उत्सन्नं प्रायेण, अत्राधिकारः, इति गाथार्थः ॥
पुनर्बोटिकमतानुयायी शङ्कते-अथेति । शुद्धद्रव्यार्थिकेति-सङ्ग्रहेत्यर्थः । समाधत्ते नेति । तेन शुद्धद्रव्यार्थिकलक्षणनिश्चयेन । सर्वेषां संसारि-मुक्तानाम् । यस्येतीति-'यस्य द्वे चेतने' इत्यत्र 'यस्य, इत्यनेनात्मविशेषग्रहणानुपपत्तेरित्यर्थः । अत एव निश्चयनये सर्वेषां जीवानां शुद्धत्वादेव, अस्य 'प्रतिपादितम्' इत्यनेनान्वयः । मग्गण० इति-"मार्गणा-गुणस्थानैश्च चतुर्दशभिर्भवन्ति तथा अशुद्धनयात् । विज्ञेया संसारिणः सर्वे शुद्धाः खलु शुद्धनयात्" ॥ इति संस्कृतम् । परेणैव वृद्धबोटिकेनैव । अग्रे द्रव्यसङ्ग्रहाख्यग्रन्थे-“तिकाले चदु पाणा०" इत्यादि प्रतिपादितं पूर्वम् , तत्पश्चात् । अस्मत्प्रापचनिका अपि श्वेताम्बरप्रावचनिका अपि । स्वजात्या स्वभावतः ।
wwwww
Ww