________________
तत्त्वबोधिनीविवृतिविभूषितम्
"
निश्चयदेशना, तस्या एतद्वैपरीत्येन मुग्धजनहृदये नास्तिक्यवासनाधानद्वारा मिथ्यादर्शनमूलत्वात् प्रतिपादितं चैतद् व्यवहारभाष्ये, समर्थितं च गुरुतत्त्वविनिश्चयं स्वोपज्ञं विवृण्वद्भिरस्माभिः अत एव सिद्धान्ते लोकोपकाराय कचित् कचिदाद्यनयत्रयदेशनैवोपनिबद्धा, न तूत्तरनयचतुष्टयप्ररूपणा, तस्या अपरिणत्यतिपरिणत्याधायकतया प्राच्यदशायामहितत्वात्, अङ्गोपाङ्गादिपारदृश्वनां परिणतजिनप्रवचनोपनिषदां दृष्टिवादाध्ययने तु सर्वनयानुयोगो विहित एव तान् प्रति तस्य हितकारणत्वात्, तदाह श्रुतकेवली
www ল
१९५
"एएहिं दिट्ठिवाए, परूवणा सुत्त - अत्थकहणा य । इह पुण अणब्भुवगमो, अहिगारो तीहि ओसण्णं ।” [ विशेषावश्यक निर्युक्तिगाथा - २२७५ ]ति ।
काङ्क्षायामाह-तस्या इति - निश्चयाश्रितदेशनाया इत्यर्थः । एतद्वैपरीत्येन व्यवहाराश्रितदेशनावैपरीत्येन, कर्म-कर्म फल - कर्तृ - भोकादिव्यवस्थोपपादकत्वाऽभावेनेति यावत्एतन्न स्वकपोलकल्पनामात्रम्, किन्तु व्यवहारभाष्ये प्रतिपादितमेतदित्याह-प्रतिपादितं चेति । ननु व्यवहारभाष्ये प्रतिपादितमपि निर्युक्तिकत्वाच्छ्रद्वापरायणैकमान्यमेवैतत्, न तु परीक्षाविदग्धजनहृदयानन्दकारीत्यत आह- समर्थितं चेति । युक्तिकदम्बकोपदर्शनेनोपपादितमित्यर्थः । अस्माभिः यशोविजयोपाध्यायैः । अत एव प्रथमं व्यवहाराश्रितदेशनायाः सम्यग्दर्शनमूलत्वाद्धितावहत्वादेव । आद्यनयत्रयेति-नैगम-सङ्ग्रह-व्यवहारात्मकनयत्रयेत्यर्थः । न त्विति - ऋजुसूत्र - शब्द- समभिरूढैवम्भूतात्मकनयचतुष्टयप्ररूपणा सिद्धान्ते क्वचित् क्वचिन्नोपनिबद्धेत्यर्थः । क्वचित् पुनः सप्तानामपि नयानां प्ररूपणा हितकारित्वादुपनिबद्धाऽपीत्याह-अङ्गोपाङ्गादीति - अङ्गानि आचाराङ्गादीनि, उपाङ्गानि औत्पातिकादीनि आदिपदान्महानिशीथप्रभृतीनि, तेषां पारं दृष्टवतामिति । तान् प्रति अङ्गोपाङ्गादिपारद्रष्टृन् परिणतजिनवचनोपनिषदः प्रमातॄन् प्रति । तस्य सर्वनयानुयोगस्य ।
wwwwwww