________________
१९४
अनेकान्तव्यवस्थाप्रकरणम् ।
आदौ व्यवहारस्यैव तदनन्तरं नयपरिकर्मितमतेः कस्यचिद् बुद्धिविस्फारणार्थं व्यवहारोपजीविनिश्चयस्य, तदनन्तरमेव च भृशतरं नयविस्तरावगाहनावदातमतिं शिष्यं प्रति निश्चयोपजीविनिश्चयस्य प्रद र्शनं प्रसिद्धम् इति किमादावेव देवानांप्रियस्य ' सूचीमुखे मुसलप्रवेशनकल्पेन' निश्चयोपजीविनिश्चयप्रदर्शनव्यापारेण ? सिद्धान्ते ह्यादिदेशना व्यवहाराश्रितैव प्रत्यपादि, तस्या एव कर्म-कर्मफलकर्तृ-भोक्त्रादिव्यवस्थोपपादकत्वेन सम्यग्दर्शनमूलत्वात् न तु
"
"
इत्यपेक्षायामाह-सम्प्रदायश्चेति । 'व्यवहारस्यैव' इत्यस्य 'प्रदर्शनं प्रसिद्धम्' इत्यनेनान्वयः । तदनन्तरं व्यवहारप्रदर्शनानन्तरम् । नयपरिकर्मितमतेः नयपरिनिष्ठितबुद्धेः । व्यवहारोपदर्शने कृतेऽपि अतिस्थूलबुद्धेः शिष्यस्य नयपरिनिष्ठितबुद्धिता ज्ञानावरणप्राबल्यान्न भवेदपीत्यतः 'कस्यचिद्' इत्युक्तम्। बुद्धिविस्फारणार्थ बुद्धिविकासार्थम्, स्थूलमात्रावगाहनप्रवृत्ताया बुद्धेः सूक्ष्मविषयावगाहनसामर्थ्यसम्पादनार्थमिति यावत् । व्यवहारोपजीविनिश्चयस्येति - अस्यापि 'प्रदर्शनं प्रसिद्धम्' इत्यनेनान्वयः । तदनन्तरमेव च व्यवहारोपजीविनिश्चयोपदर्शनानन्तरमेव पुनः । इति एतस्मात् कारणात्, देवानांप्रियस्य एतच्च याज्ञिकप्रसिद्धिमवलम्ब्य, यज्ञे देवतोद्देशेन पशुहिंसा याज्ञिकैः क्रियते, ततश्च देवानां पशवः प्रिया इति तेषामभिमानोऽवगम्यते, ज्ञानविशेषराहित्येन पशुसदृशत्वान्मूर्खोऽपि पशुरेवेत्युपचर्यत इति कृत्वा मूर्खस्य बोटिकवृद्धस्य । सूचीमुख इति यथा अतिसूक्ष्मे सूचीमुखे तदपेक्षया अतिस्थूलस्य मुसलस्य प्रवेशनमसम्भवीति तदर्थं जडमतेः कस्यचित् तत्र व्यापारणं निष्फलत्वाद् हास्यास्पदं तथा निष्फलत्वात् तत्कल्पेन, आदावेव प्रथमत एव, निश्चयोपजीविनिश्चयप्रदर्शनव्यापारेण, किम् न किञ्चिदित्यर्थः । कथमित्थमुपदर्शितक्रम एव सम्प्रदायो नान्यथेत्यत आह- सिद्धान्ते हीति । यतः, सिद्धान्ते जैनागमे । आदिदेशना प्रथमत उपदेशः । न हि यथाकथञ्चिद् व्यवहाराश्रितदेशनायाः प्राथम्यम्, किन्तु सम्यग्दर्शनमूलत्वात् तस्याः प्राथम्यमित्याह- तस्या एवेति-व्यवहाराश्रितदेशनाया एवेत्यर्थः । न त्विति - सिद्धान्ते निश्चयाश्रितदेशना न प्रथमतः प्रत्यपादीत्यर्थः । कथं न सा प्रथमतः प्रतिपादितेत्या
wwwwvv