________________
तत्त्वबोधिनीविवृतिविभूषितम् १९३ निश्चयोपजीविनिश्चयेन सिद्धस्यैव जीवत्वम्, न संसारिण इत्यस्मन्मतमदुष्टमिति चेत् ? न-तथापि व्यवहारोपजीविनिश्चयेन शब्दार्थोपदर्शनं विना निश्चयोपजीविनिश्चयेन शब्दार्थोपदर्शनस्य क्रमभङ्गदोषावहत्वात् । अथ 'विचित्रा सूत्राणां कृतिराचार्यस्य' इति निश्चयोपजीविनिश्चयप्रदर्शनेच्छयैवास्मद्ग्रन्थकारप्रवृत्तेरयमदोष इति चेत् ? न ग्रन्थकर्तुरिच्छावैचित्र्यस्यापि सम्प्रदायानतिवर्तित्वात् , सम्प्रदायश्च,
सत्येव, नयान्तरस्य-निश्चयनयस्य, प्रवृत्तिः । इति एतस्मात् कारणात् । निश्चयोपजीविनिश्चयेन निश्चयनयमाश्रित्य प्रवृत्तेनैवम्भूतस्वरूपनिश्चयेन । अस्मन्मतं वृद्धबोटिकमतम् । समाधत्ते-नेति । तथापि उक्तरीत्या निश्चयोपजीविनिश्चयेन सिद्धस्य जीवत्वसम्भवेऽपि क्रमभङ्गेति-पूर्व व्यवहारोपजीव्येवम्भूतात्मकनिश्चयेन शब्दार्थोपदर्शनम्, तदनन्तरं निश्चयोपजीविनिश्चयेन शब्दार्थोपदर्शनमित्येवं यः क्रमस्तस्य भङ्गलक्षणो दोषस्तदावहत्वाद् बोटिकमतं दुष्टमेवेत्यर्थः । पुनर्बोटिकानुयायी शङ्कते-अथेति 'इच्छयैव' इत्यनेन निश्चयसामान्योपदर्शनेच्छाया व्यवच्छेदः । अयं क्रममङ्गः, यदि निश्चयसामान्योपदर्शनेच्छयाऽस्मद्रन्थकर्तुः प्रवृत्तिः स्यात् तदा निश्चयसामान्यान्तर्गतो यथा निश्चयोपजीविनिश्चयस्तथा व्यवहारोपजीविनिश्चयोऽपि एवं च तदुभयोपदर्शनकरणप्राप्तौ पूर्व व्यवहारोपजीविनिश्चयोपदर्शनं कर्तव्यम्, ततो निश्चयोपजीविनिश्चयप्रदर्शनं करणीयमित्येवं क्रमो न्याय्य इति तत्र यदि निश्चयोपजीविनिश्चयस्यैव प्रदर्शनं क्रियेत भवेदेव क्रमभङ्गः, अस्मद्रन्थकृता तु निश्चयोपजीविनिश्चयलक्षणनिश्चयविशेषोपदर्शनेच्छयैव निश्चयोपजीविनिश्चयप्रदर्शनं कृतमिति तत्र क्रमेण प्राप्तेरेवाभावान्न क्रमभङ्ग इत्याशयः । समाधत्ते-नेति । भवदन्थकर्ता यदि सम्प्रदायानुसारिप्रवृत्तिकस्तदा तस्योक्तेच्छैव न सम्भवतीति न तथेच्छयोक्तोपदर्शनं न्याय्यमित्याशयेनाह-ग्रन्थकतुरिति । सम्प्रदायानतिवर्तित्वात् ग्रन्थकाराणां यद्यपीच्छावैचित्र्यं समस्ति, तथापि सम्प्रदायं नाऽतिकामति तद्, अतः सम्प्रदायानतिवर्तित्वाद् भवद्रन्थकारस्यापीच्छा प्रथमं व्यवहारोपजीविनिश्चयोपदर्शनविषयिण्येवोदियात्, ततो निश्चयोपजीविनिश्चयविषयिणीत्येवं सति प्रथमत एव निश्चयोपजीविनिश्चयार्थोपदर्शने क्रमभङ्गदोषः स्यादेवेति भावः। सम्प्रदायोऽत्रार्थे, कीदृशः?
अ. व्य. १३