________________
तत्त्वबोधिनीविवृतिविभूषितम् यदपि देश-देशिनोरेकत्वं समर्थयता 'देशी चासौ देशश्च' इत्याद्युक्तं समभिरूढेन, तदपि समभिरूढनयमते न युक्तमिति दर्शयन्नाह -
"जइ देसि चिय देसो, पत्ता पज्जायवयणपडिवत्ती।" पुणरुत्तमाणस्थयं, वत्थुसंकमो वा ण चेहँ ते ॥
[विशेषावश्यकभाष्यगाथा-२२५७ ] यदि देश्येव देशः, देशो वा देशी तदाऽनयोः 'वृक्षः पादपः' इत्यादीनामिव पर्यायवचनतैव प्राप्ता, ततश्च यथा 'वृक्षः पादपः' इत्येकार्थशब्दप्रयोगे पौनरुक्त्यं तथा देशि-देशशब्दप्रयोगेऽपि स्यात् , तथा, एकेनापि द्वितीयशब्दार्थस्य प्रतिपादितत्वाद् द्वितीयशब्दप्रयोगस्यानर्थक्यं च स्यात् , तथा, देशस्य देशिनि, देशिनश्च देशे तिरोधानाद् वस्तुसङ्कमोऽपि भवेत् , न चेदं तवेष्टम् , तस्मान्न देश-देशिनोरेकत्वमिति । भेदपक्षस्तु तयोस्त्वयापि निराकृत एव ।।
अथाभेदपक्षोक्तदूषणभिया पुनस्तमङ्गीकरिष्यसि, तत्राह"अह भिन्नो तस्स तओ, ण होइ ण य वत्थुसंकमभयाओ। देसी चेव य देसो, नवा पएसी पएसो त्ति ॥"
[विशेषावश्यकभाष्यगाथा-२२५८ ] अन्यदपि समभिरूढाभिमतमेवम्भूतनयेनाऽयुक्तमित्युपदर्शकं भाष्यवचनमवतार्योल्लिखति-यदपीति । जइ० इति-“यदि देश्येव देशः प्राप्ता पर्यायवचनप्रतिपत्तिः । पुनरुक्तमानर्थ्य वस्तुसङ्कमो वा न चेष्टन्ते" ॥ इति संस्कृतम् । विवृणोति-यदीति । अनयोः देशि-देशपदयोः, । ततश्च पर्यायवचनताप्राप्तितश्च । देश-देशिनोरैक्ये क्रमेण पौनरुक्त्या-ऽनर्थक्य-वस्तुसङ्क्रमदोषान् सङ्गमयति-यथेत्यादिना । देशस्येतिदेशस्य देशिनि तिरोधानादित्यन्वयः । न चेदं तवेष्टं पौनरुक्त्यानर्थक्यवस्तुसङ्क्रमलक्षणदोषत्रयं समभिरूढनयवादिनो न चेष्टम् , तथा च तादृशदोषप्रसञ्जनस्येष्टापत्तित्वाभ्युपगमेन परिहारो न सम्भवतीति भावः । उपसंहरति-तस्मादिति । नन्वेवं देश-देशिनोरेकत्वं मा नाम स्यात् , भेद एवानयोर्भविष्यतीत्यत आह-भेदपक्षस्त्विति । तयोः देश-देशिनोः । त्वयापि समभिरूढवादिनाऽपि । ननु तयो