________________
तत्त्वबोधिनीविवृतिविभूषितम् ३१५ अथ द्रव्य-गुणयोर्भेदैकान्तवादिनो द्रव्य-गुणलक्षणानुपपत्तिमुद्भावयन्ति
"दवस ठिई जम्म-विगमा य गुणलक्खणं ति वत्तवं । एवं सइ केवलिणो, जुज्जइ तं णो उ दवियस्स ॥"
[सम्मतिकाण्ड० ३, गाथा-२३] द्रव्यस्य लक्षणं स्थितिः, जन्म-विगमौ लक्षणं गुणानाम् , एवं सति केवलिनो युज्यत एतल्लक्षणम् , तत्र किल केवलात्मना स्थित एव चेतना-ऽचेतनरूपा अन्येऽर्था ज्ञेयभावेनोत्पद्यन्ते, अज्ञेयरूपतया च नश्यन्ति, न तु द्रव्यस्य-अण्वादेर्लक्षणमिदं युज्यते, नह्मणौ रूपादयो जायन्ते अत्यन्तभिन्नत्वाद् गव्यश्वादिवत् , अथवा केवलि. द्रव्य-गुणयोर्भेदैकान्तवादिनां स्याद्वाद्यभिमतद्रव्य-गुणलक्षणानुपपत्तिमुद्भावयतां मतस्योपदर्शिकां सम्मतिगाथामवतार्योल्लिखति-अथेति । दव्वस्स इति-"द्रव्यस्य स्थितिर्जन्म-विगमौ च गुणलक्षणमिति वक्तव्यम् । एवं सति केवलिनो युज्यते तन्न तु द्रव्यस्य ॥” इति संस्कृतम् । विवृणोति-द्रव्यस्य तु लक्षणं स्थितिरिति। केवलिनि निरुक्तद्रव्य-गुणलक्षणसङ्गमनं करोति-तत्रेति-केवलिनीत्यर्थः । केवलिनि ज्ञेयभावेनान्येषामर्थानामुत्पत्तौ तद्राहकत्वेन केवलिनोऽप्युत्पत्तिः, एवमन्येषामर्थानामज्ञेयभावेन तत्र विनाशे तदग्राहकत्वेन केवलिनोऽपि विनाश इत्येवं केवलात्मना स्थितिमतः केवलिनो जन्म-विनाशयोरपि सद्भावान्निरुक्तद्रव्य-गुणलक्षणयोगित्वमित्यर्थः । केवलिनोऽपि द्रव्यत्वात् तस्योक्तलक्षणयोगस्य दर्शितत्वात् 'न तु द्रव्यस्य' इति सामान्यतो द्रव्यस्योक्तलक्षणायुक्तत्वकथनमयुक्तमतः। 'अण्वादेः' इति, अनेन केवलिभिन्नस्य सर्वस्य द्रव्यस्य ग्रहणम् । ननु अण्वात्मना स्थित एवाणौ रूपादयो जायन्ते नश्यन्ति चेति रूपाद्यात्मना जन्म-विनाशौ सम्भवत एवाणोरपीत्यत आह-न हीति-अस्य 'जायन्ते' इत्यनेनान्वयः । अणौ रूपादीनामुत्पादेऽपि तदैवाणोरुत्पाद आयाति यदि रूपादिभिः सममणोरभेदः स्यात् , मेदे तु नास्योत्पादेऽन्यस्योत्पाद इत्यभिसन्धानेनाणौ रूपादयोऽभिन्नतया नहि जायन्त इत्येवार्थः, तत्र हेतुमाह-अत्यन्तमिन्नत्वादिति । गव्यश्वादिवदिति-यथा गोभिना अश्वादयो न गवि जायन्ते