________________
३१४
अनेकान्तव्यवस्थाप्रकरणम् । देशनियमानुपपत्तः, विरोधश्च कालभेदेन देशभेदेन वा निरसनीयः, न चैकत्रैव प्रदेशे द्विगुणरसादित्वे एकगुणरसादिद्वयसमावेशाद् विरोधः सम्भावनीयः, एकैकगुणापेक्षया द्विगुणपर्यायवतो रसस्य प्रत्येकातिरिक्तत्वेनाविरोधात् , अत एव परापेक्षया षट्स्थानपतितत्वमप्यविरुद्धम् , आपेक्षिकधर्मयोह्रस्वत्व-दीर्घत्वयोरिव विरोधासिद्धेरिति दिक् । तन्न द्रव्याद्वैतैकान्तः सम्भवी ।। पीति-यद् वस्तु विषमरूपतया परिणमति तद् वस्तुस्वरूपस्यापीत्यर्थः। तत्र विषमपरिगतौ। अन्यथा तद्गतविषमपरिणतौ। तत्स्वरूपस्य निमित्तत्वानुपगमे । द्विगुणरसेति-द्विगुणमधुरा-ऽनन्तगुणकृष्णादिस्तत्रैव भवति नान्यत्रेति योऽयं द्विगुणरसादीनां देशनियमस्तस्यानुपपत्तेः, यथा च तत्स्वरूपं तथाभूतपरिणतावनिमित्तं तथा तदन्यवस्तुखरूपमपीत्यनिमित्तत्वाविशेषात्। तद्वस्तुन इव तदन्यवस्तुनोऽपि तथाभूतपरिणत्यापत्तेः, तद्वस्तुनः सर्वथा तथाभूतपरिणतिनिमित्तत्वेऽपि द्रव्य-क्षेत्र-काल-भावादिसहकारिसमवधानमन्तरेणापि तथाभूतपरिणतिरेव सर्वदा तद्वस्तुनो भवेन्नान्यथाभूतपरिणतिः कदाचिदपि स्यादतः कथञ्चिन्निमित्तत्वं स्वीकरणीयमित्यर्थः । यदेवाम्रादि वस्तु द्विगुणमधुरं तदेवैकगुणमधुरादिकमपीति विरोधो नाशङ्कनीयः, यतो यदा यद्देशावच्छेदेन यद्वस्तुनि द्विगुणमधुरादिकं तदानीमेव तद्देशावच्छेदेनैव तद्वस्तुनि यद्येकगुणमधुरादिकमुपेयेत स्यात् तदा विरोधः, न चैवम्, किन्तु मिन्नदेशावच्छेदेन भिन्नकालावच्छेदेनैव वा तयोरुपगम इति नास्त्यत्र विरोध इत्याह-विरोधश्चेति। ननु यद्वस्तुन्येकदैव द्विगुणरसादित्वमेकप्रदेशावच्छेदेन तत्र द्विगुणरसे एकगुणरस एकः, तदन्यश्चैकगुणरस इति तयोरेकगुणरसयोरेकप्रदेशे एकदैव सद्भावाद् विरोधः स्यादित्याशङ्कय प्रतिक्षिपति-न चेति-अस्य 'सम्भावनीयः' इत्यनेनान्वयः । द्विगुणरस एकैकगुणरसद्वयाभ्यामन्य एव, न त्वेकैकगुणरसद्वयसमभिव्याहारो द्विगुणरस इति यत्र प्रदेशे द्विगुणरसो न तत्रैकगुणरसद्वयमिति कुतोऽत्र विरोधसङ्कथाऽपीति निषेधहेतुमुपदर्शयतिएकैकगुणापेक्षयेति । अत एव विषमपरिणतेरेकस्मिन् वस्तुनि परनिमित्ततयाऽभ्युपगमादेव। य एव द्विहस्तमितो दण्ड एकहस्तमितदण्डाद् दीर्घः स एव चतुर्हस्तमितदण्डाद् ह्रस्वश्चेत्येवमपेक्षाभेदेनैकत्र समाविष्टयोहखत्व-दीर्घत्वयोर्यथा न विरोधस्तथैव विभिन्नप्रदेशावच्छेदेनैकत्रैव वर्तमानयोर्द्विगुणमधुराधेकगुणमधुराद्योरपि न विरोध इत्याह-आपेक्षिकधर्मयोरिति । द्रव्याद्वैतवादखण्डनमुपसंहरति-तन्नेति ॥