________________
तत्त्वबोधिनीविवृतिविभूषितम्
३१३
द्रव्याद्वैतवादिनस्तु न सम्बन्धिविशेषो नापि सम्बन्धविशेषः सङ्गच्छत इति कुतो रसनादिविशेष सम्बन्धजनितो रसादिविशेषपरिणामः ? ॥ नन्वनेकान्तवादिनोऽपि रूपरसादेरनन्तगुण-द्विगुणादिवैषम्यपरिणतिः कथमुपपन्नेत्याशङ्कायामाह -
"भण्णइ विसमपरिणयं (ई), कह एयं होहिइ त्ति उवणीयं ॥ तं होइ परणिमित्तं, णव त्ति णत्थित्थ एगंतो ॥”
[ सम्मतिकाण्ड० ३, गाथा - २२ ]
शीतोष्णस्पर्शवदेकत्रैकदा विरोधाद् भण्यते एकत्राम्रफलादौ विषमपरिणतिः कथं भवतीति परेण प्रेरिते, उपनीतं प्रदर्शितम् आप्तेन, तद्-वैषम्यं भवति, परनिमित्तं - द्रव्य-क्षेत्र - काल - भावानां सहकारिणां वैचित्र्यात् तदाम्रादिवस्तु विषमरूपतया परिणमतीति वैषम्यं परनिमित्तमित्यर्थः, न च परनिमित्तमेवेत्यत्राप्येकान्तोऽस्ति, स्वरूपस्यापि तत्र कथञ्चिन्निमित्तत्वाद्, अन्यथा द्विगुणरसादीनां
wwwwwww
दर्शयति-नन्विति । रूपरसादेरिति - 'दुगुणमहुरम्' इत्यनेन रसस्य द्विगुणमधुरादिरूपेण परिणतिः, 'अणंतगुणकालयं तु' इत्यनेन रूपस्यानन्तगुण कृष्णादिरूपेण परिणतिरित्येवं वैषम्यपरिणतिर्योपदर्शिता सा कथमुपपन्नेत्यर्थः, भण्णइ इति - " भण्यते विषमपरिणतं कथमेतद् भविष्यतीत्युपनीतम् । तद् भवति परनिमित्तं न वेति नास्त्यत्रैकान्तः ॥” इति संस्कृतम् । विवृणोति - शीतोष्णस्पर्शवदिति- - यथा शीतोष्णस्पर्शयोरेकत्रैकदा विरोधान्न भवति परिणतिस्तथेत्यर्थः । परेण प्रेरिते एकान्तवादित्थं प्रश्ने कृते सति, 'उपनीतम्' इत्यस्य 'प्रदर्शितम्' इत्यर्थः, केनोपनीतमित्यपेक्षायाम् 'आप्तेन' इति पूरितम् । तथा च जैनाचार्येण तत्रानन्तरमेवाभिधीयमानं समाधानं दर्शितम् । 'तद्' इत्यस्य 'वैषम्यम्' इत्यर्थः । वैषम्यं परनिमित्तं यथा भवति तथा भावयति - द्रव्य-क्षेत्र - काल- भावानामिति । 'न वा' इत्यनेनानेकान्त उपदर्शितः, स च 'नास्त्यत्रैकान्तः' इत्यनेन दृढीकृत इति । तदेव स्पष्टयतिन च परनिमित्तमेवेत्यत्राऽप्येकान्तो ऽस्तीति । तत्र हेतुमाह-स्वरूपस्या