________________
३२० अनेकान्तव्यवस्थाप्रकरणम् । निमित्तापरिज्ञानान्मृषावादिवदिति तात्पर्यार्थः । ततोऽनेकान्तवाद एव व्यवस्थितः ॥
ननु सर्वत्राऽनेकान्त इति नियमेऽनेकान्तेऽप्यनेकान्तादेकान्तादेकान्तप्रसक्तिरिति चेत् ? अत्र वदन्ति
"भयणा वि हु भइयवा, जह भयणा भयइ सबवाई। एवं भयणा णियमो वि, होइ समयाविरोहेण ॥"
. [सम्मतिकाण्ड० ३, गाथा-२७] यथा भजना-अनेकान्तः, अजते-सर्ववस्तूनि तदेतत्स्वभावतया ज्ञापयति, यथा भजनापि-अनेकान्तोऽपि, भजनीया-अनेकान्तोऽप्य
'नित्यत्वा-ऽनित्यत्वादयः सर्वे धर्माः स्वसमानाधिकरणात्यन्ताभावप्रतियोगिनो धर्मत्वात् कपिसंयोगादिवद् इत्यनुमानमनेकान्तस्य सर्वव्यापकत्वे प्रमाणमभिमतं स्याद्वादिनाम् तच्च न सम्भवति धर्मत्वस्यानेकान्तत्वेऽपि सत्त्वेन तत्र स्वसमानाधिकरणैकान्तत्वरूपाभावप्रतियोगित्वसद्भावस्यैकान्तापत्तिभिया स्वीकर्तुमशक्यत्वेन तत्रैव व्यभिचारात् स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्व-धर्मत्वयोर्व्याप्त्यासिद्धेः, तयोरविनाभावोपपत्तये यद्यनेकान्तत्वेऽपि स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वमुपेयत एव तदाऽनेकान्त एवैकान्त इत्यतोऽपि न सर्वव्यापकत्वमनेकान्तत्वस्येत्युभयतः पाशा रज्जुरिति शङ्कते-नन्विति । उक्ताशङ्कासमाधानपरतया सम्मतिगाथामवतार्य दर्शयति-अत्र वदन्तीति-उक्ताशङ्कायां समाधानमभिदधतीत्यर्थः । भयणा वि० इति-"भजनाऽपि खलु भजनीया यथा भजना भजते सर्वद्रव्याणि । एवं भजना नियमोऽपि भवति समयाविरोधेन ॥” इति संस्कृतम् । विवृणोति-यथेतिद्वितीयचरणव्याख्येयम् । 'भजना' इत्यस्य 'अनेकान्तः' इत्यर्थः 'सर्वद्रव्याणि' इत्यत्र द्रव्यपदं वस्तुसामान्यपरमित्यभिसन्धानेनाह-सर्ववस्तूनीति। 'भजते' इत्यस्य 'तदतत्स्वभावतया ज्ञापयति' इत्यर्थः, 'तदेतद' इति मुद्रणदोषात् । प्रथमचरणव्याख्यामाह-तथेति । अनेकान्तवाचकस्त्रीलिङ्गभजनाशब्दसमभिव्याहाराद् 'भजनीया' इति स्त्रीलिङ्गमुक्तम् । 'भजनाऽपि भजनीया' इत्यस्य अनेकान्तोऽप्यनेकान्तः' इत्यर्थः । अस्माकं जैनानाम् । कथमिष्टमनेकान्तस्या