SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ तत्त्वबोधिनीविवृतिविभूषितम् ३१९ "ण वि अस्थि अण्णवाओ, ण वि तबाओ जिणोवएसम्मि । तं चेव य मण्णंता, अवमण्णंता ण याणंति ॥" ... [सम्मतिकाण्ड० ३, गाथा-२६] नैवास्त्यन्यवादो गुण-गुणिनो प्यनन्यवादः, जिनोपदेशे-द्वादशाङ्गे प्रवचने, सर्वत्र कथञ्चिदित्याश्रयणात् , 'तदेव, अन्यदेव' इति वा मन्यमाना मननीयमेवावमन्यमाना वादिनोऽभ्युपगतविषयावज्ञाविधायित्वादज्ञा भवन्ति, अभ्युपगमनीयवस्त्वस्तित्वप्रतिपादकोपायइति, एकान्तवादिभिः सममनेकान्तवादिनो विवादे तु 'वस्त्वनेकान्तात्मकं न वा?' इत्येव विप्रतिपत्तिरिति किमेते.' इत्यादिस्वरूपा विप्रतिपत्तिरेव न भवतीति कुतस्तस्याः कथाङ्गत्वात् कथात्वोपचार इति बोध्यम् ।। - एकान्तवादिनामविशेषेणाज्ञत्वप्रतिपादिकां सम्मतिगाथां प्रस्तुतार्थसङ्गततयाऽवतार्य दर्शयति-एवंरूपे चेति-अनेकान्तात्मके चेत्यर्थः । अन्यथा रूपम् भिन्नमेव, अभिन्नमेवेत्यायेकान्तात्मकम् । तत् वस्तुवत्त्वम् । ण वि० इति-"नैवास्त्यन्यवादो नापि तद्वादो जिनोपदेशे। तदेव च मन्यमाना अवमन्यमाना न जानन्ति ॥" इति संस्कृतम् । विवृणोति-नेवास्त्यन्यवाद इति । 'नापि तद्वादः' इत्यस्यार्थः'नाप्यनन्यवादः' इति । 'जिनोपदेश' इत्यस्यार्थे-द्वादशाने प्रवचने इति। अन्यवादाऽनन्यवादनिषेधयोर्हेतुमुपदर्शयति-सर्वत्रेति-अन्यत्वा-ऽनन्यत्वादौ सर्वत्र विषय इत्यर्थः । कथञ्चिदित्याश्रयणादिति-कथञ्चिदनन्यत्वं कथञ्चिदन्यत्वं कथञ्चिन्नित्यत्वं कथञ्चिदनित्यत्वमित्येवमभ्युपगमादित्यर्थः 'तदेव च' इत्यत्र चकाराद् 'अन्यदेव' इत्यस्य समुच्चयमाश्रित्याह-'तदेव अन्यदेव' इति वेति। अभ्युपगतेति-खयमपि यद्वस्त्वभ्युपगच्छन्ति ते, तद् वस्तुतोऽनेकान्तमेव, एकान्तस्य शशशृङ्गकल्पत्वेन तदभ्युपगमासम्भवादित्यभ्युपगतं यदनेकान्तं तद्विषया याऽवज्ञा 'अनेकान्तं वस्तु नास्त्येव' इत्येवंरूपा तद्विधायित्वात् तत्कारित्वादज्ञाः-ज्ञानशून्या भवन्तीत्यर्थः । उक्तावज्ञाकारित्वेऽपि कथमज्ञत्वमित्यपेक्षायामाह-अभ्युपगमनीयेतियन्नित्यमनित्यं वाऽभ्युपगमनीयं वस्तु तस्यास्तित्वं किञ्चिदपेक्षया, तत्प्रतिपादकोपायः स्याद्वाद्युपदर्शितो यस्तन्निमित्तस्य स्वद्रव्यादिरूपापेक्षाज्ञापकनयादिलक्षणस्यापरिज्ञानादित्यर्थः । उपसंहरति-तत इति-सर्वेषामेकान्तवादानां दूषितत्वादित्यर्थः । ननु
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy