________________
૨૮
अनेकान्तव्यवस्थाप्रकरणम् ।
कथाया एवासम्भवात्, नहि चित्रं वस्तु नील - पीताद्यन्यतरतया कथ्यते चर्च्यते वा, एकतरजिज्ञासया केवलं तथा प्रतीयत इति, एतदाह"सीसमईविष्फारणमेत्तत्थोयं कओ समुल्लावो ।
ww
इहरा कहामुहं चेव, णत्थि एवं ससमयम्मि || ” [ सम्मतिकाण्ड० ३, गाथा - २५] शिष्य बुद्धिविकासनमात्रार्थोऽयं कृतः प्रबन्धः, इतरथा कथैवैषा नास्ति स्वसिद्धान्ते - 'किमेते गुणा गुणिनो भिन्नाः ? आहोस्विदभिन्नाः ?” इति, अनेकान्तात्मकत्वात् सकलवस्तुनः । एवंरूपे च वस्तुतत्त्वे ऽन्यथारूपं तत् प्रतिपादयन्तो मिध्यावादिनो भवन्तीत्याह —
रात्मके नापि भिन्नस्वभावं नाप्यभिन्नस्वभावं किन्त्वखण्डात्मकत्वात् तदुभयस्वभावकलितत्वेन चित्रस्वरूपे । 'भेदा ऽभेदादन्यतर' इति स्थाने 'भेदाभेदाद्यन्यतर' इति पाठो युक्तः, आदिपदादेकानेक नित्यानित्य- सामान्यविशेषादेरुपग्रहः, अन्यतरपदं चान्यतमपरम्, बहुषु ग्रन्थेषु प्राचामन्यतमपदे प्रयोक्तव्येऽन्यतरपदस्यैव प्रयोगो दृश्यत इत्यतोऽन्यतरत्वमनेकभेदावच्छिन्न प्रतियोगिताकभेदखरूपमेव द्वितयत्रितयादिसाधारणमभिमतं न तु भेदद्वयावच्छिन्न प्रतियोगिताकभेदरूपं वस्तुद्वयमात्रवृत्ति वा बोध्यम् । उक्तार्थदाययाह -नहीति । तथा नीलात्मना पीतात्मना वा । उक्तार्थे सम्मति-संवादमाह - एतदाहेति । सीसमई० इति - " शिष्यमतिविस्फारणमात्रार्थोऽयं कृतः समुल्लापः । इतरथा कथामुखं चैव नास्त्येवं स्वसमये" ॥ इति संस्कृतम् । विवृणोति - शिष्यबुद्धीति । कीदृशी कथा जैनसिद्धान्ते नास्तीत्यपेक्षायामाह - किमेत इति । कथमियं कथा नास्तीत्यपेक्षायाम् अनेकान्तेतियद्यपि 'किमेते गुणा गुणिनो भिन्नाः ? आहोस्विदभिन्नाः ?' इति न कथा कस्यापि वादिनः, ये गुण- गुणिनोर्भेदमभ्युपयन्ति तेषां 'गुणा गुणिनो भिन्ना भिन्नप्रत्ययावसेयत्वाद्' इत्यादिप्रतिपाद्यवयोपन्यासरूपा कथा, ये पुनस्तयोरभेदमुरकुर्वन्ति तेषां 'गुणा गुणिनोऽभिन्नास्तदात्मनोपलभ्यमानत्वाद्' इत्यादिप्रतिज्ञाद्यवयवकथनात्मिका सेति, तथाप्येकान्तवादिनां स्वस्वमतोपदर्शनलक्षणकथातः प्राकू कथाङ्गविप्रतिपत्तिरवश्यमुपन्यसनीयेति, सा चैवंविधेति कथाङ्गत्वात् कथात्वेन व्यवहियत