________________
तत्त्वबोधिनी विवृतिविभूषितम्
३१७
द्रव्य-गुणयोः कथचिद्भेदाभेदावभ्युपगमनीयौ, अन्यथा प्रतीतिविरोधात्, तथाहि - द्रव्य-गुणयोर्यथाक्रममेकाऽनेकप्रत्ययावसेयत्वात कथञ्चिद् भेदः प्रतीयते, कथञ्चिदभेदोऽपि रूपाद्यात्मना द्रव्यस्वरूपस्य, रूपादीनां च द्रव्यात्मकतया प्रतीतेः, अन्यथा तदभावापत्तेः, एतच्च विवक्षामात्रेणोच्यतेऽन्यथा जात्यन्तरात्मके वस्तुनि भेदाभेदादन्यतर
मूर्तिमद्रूपाद्याधार इति न परमाणुस्वरूपस्तथेत्यर्थः । अथामूर्ताः यदि द्रव्यार्थान्तरभूता गुणा अमूर्ता अभ्युपगम्यन्ते तदा तेषाम् अमूर्तानां गुणानाम्, अग्रहणं प्रत्यक्षाविषयत्वम्, आकाशवदिति-यथा आकाशोऽमूर्ती न प्रत्यक्षविषयस्तथेत्यर्थः । ततः द्रव्य-गुणयोरभेदैकान्ते भेदैकान्ते च दोषस्य सद्भावात् । अन्यथा द्रव्य-गुणयोः कथञ्चिद्भेदा-ऽभेदयोरनभ्युपगमे । प्रतीतिविरोधादिति - या च द्रव्य-गुणयोः कथञ्चिद्भेदस्य प्रतीतिः, या च तयोः कथञ्चिदभेदस्य प्रतीतिस्तयोरविषयत्वप्रसङ्गादित्यर्थः । प्रतीतिविरोधमेव भावयति - तथाहीति । यथाक्रममिति - यद्यपि द्रव्यं घटादिकं यथा 'अयं घटः, अयं पटः' इत्येवं प्रत्येकमेकतया प्रतीयते तथा इदं रूपमयं रसः, अयं गन्धः, अयं स्पर्शः' इत्येवं प्रत्येकमेकतया गुणोऽपि प्रतीयते, यथा च 'इमे रूप-रस- गन्धाः' इत्येवमनेकतया गुणः प्रतीयते तथा 'इमे घट-पट'कटाः' इत्येवमनेकतया द्रव्यमपि प्रतीयते, तथापि 'अस्मिन् घटे इमे रूप-रस- गन्धस्पर्शाः' इत्येवं या प्रतीतिस्तत्र घटद्रव्यमेकतयाऽवभासते रूपाद्याश्च गुणा अनेकतयाऽवभासन्त इत्येवं द्रव्यस्यैकप्रत्ययावसेयत्वाद् गुणस्यानेकप्रत्ययावसेयत्वाद् यदि तयोरभेद एव स्यादेकप्रत्ययावसेयत्वमेवानेकप्रत्ययावसेयत्वमेव वा स्यात् न चैवम्, अतः कथञ्चित् तयोर्भेदोऽपीत्यर्थः । कथञ्चिदभेदोऽपि' इत्यत्र 'द्रव्य-गुणयोः ' इत्यस्यानुकर्षः । अन्यथा द्रव्य-गुणयोः कथञ्चिदभेदस्याभावे, सर्वथा तयोर्भेदस्यैवाभ्युपगमे वा । तदभावापत्तेः द्रव्यखरूपस्य रूपाद्यात्मना प्रतीतेः रूपादीनां द्रव्यात्मकतया प्रतीतेश्चाभावापत्तेः । एतच्च द्रव्य-गुणयोः कथञ्चिद्भेदः कथञ्चिदभेदश्वेत्येवं वचनं च । विवक्षामात्रेण भेदा-भेदोभयात्मकत्वेन जात्यन्तरात्मके चित्रस्वरूपे वस्तुनि भेदा-ऽभेदयोर्भागयोरभावेऽपि 'एतदपेक्षया मेदः, एतदपेक्षयाsभेदः' इत्येवं भागद्वयं प्रकल्प्य प्रतिपाद्यपुरुषस्य प्रतिपत्तिसौकर्याय तयोर्या विवक्षा तन्मात्रेण । उच्यते अभिधीयते । अन्यथा विवक्षाया अनाश्रयणे । जात्यन्त