________________
Wm
३७०
अनेकान्तव्यवस्थाप्रकरणम् । एवं चान्यो विशेषोऽप्युदित इह नयाच्छन्दतो भावनीय, ___ एवम्भूतो यथैवाभिहित इह भवेच्छब्दतोऽर्थस्तथैव । योऽर्थः शब्दार्थचेष्टादिकप्रतिनियताद् भिन्नरूपः स नैव,
तच्छब्दार्थो नयेऽस्मिन्ननुमतिरुदिता भाष्य-नियुक्तिवाचाम् ॥ १२० ॥ उक्तार्थे चानुमानं गदितमनुगुणं बाधकं तद्विपक्षे,
भेदः पर्यायभेदाद् यदि च समभिरूढस्य मान्यः पदार्थे । तत् किं व्युत्पत्तिलभ्यार्थसमयविरहे तत्पदार्थाच्च भिन्नो, ___ नो मान्यो भाष्यवाणी वदति च विषयं ह्येनमर्थानुगत्या ॥ १२१॥ संसारी जीववाच्यस्तदनुमत इह प्राणसंधारणाच्च,
प्राणाः पञ्चेन्द्रियाद्या दश जिनगदिता नैव सिद्धस्तु जीवः । शब्दार्थाभाववत्त्वाद् भवति पुनरसौ किन्तु सत्त्वादिवाच्यो,
जीवः सिद्धोऽपि तत्रेति विवसनमतं खण्डितं विस्तरेण ॥ १२२ ॥ देशादेः कल्पना नो क्रमत इह तथा वस्त्वखंडं मतं य.. नो साङ्कर्यादिदोषोऽप्यभिभवतु तथा वस्त्वखण्डं नयेऽस्मिन् । नैकस्यान्येन बन्धोऽभिमत इह यतो नो समासश्च कोऽपि, ___ वैशिष्टयग्राहिबोधो भ्रम इह सकलो यद्विशिष्टं न चास्ति ॥ १२३ ॥ उत्प्रेक्षामात्रतोऽथ व्यवहृतिरखिला मानसादेव शाब्दो, ___ वाक्याखण्डार्थबोधोऽप्यनुभवविषयश्चेत् तदा लक्षणाऽत्र । वाक्ये वेदान्तिकानामिव न भवति सा शक्यसम्बन्धरूपा,
वाक्ये शक्तेरभावात् प्रकृतमितिफला किन्तु शक्तिर्विशिष्टा ॥ १२४ ॥ वाक्यस्फोटे त्वखण्डेऽभ्युपगमविषये चेत् तदाऽखण्डतोऽस्माद् , ___ व्यक्तात् स्यादुक्तबोधो भवति स तु तदा युक्तिमार्गोपपन्नः । इत्थं श्रीवाचकाग्रैरनुजिनसमयं स्थापिताः सिद्धिपृष्ठे,
उक्ताः शब्दादिकास्ते त्रय उदितगुणाः स्युर्नया मेयभूत्यै ॥ १२५ ॥ प्रत्यक्षादिस्थले तेऽजहदनुगतिकैकोपयोगस्वरूपा,
सापेक्षा मानरूपा वचनपथि नयाः सप्तभङ्गीस्वरूपाः । मानं नो तेऽनपेक्षा इति नियमप्रथा सम्मतौ स्पष्टरूपा,
तस्मादेका नयोक्तिस्त्वपि भवति तथाभावतो जैनमान्या ॥ १२६ ॥