________________
तत्त्वबोधिनी विवृतिविभूषितम्
इष्टा सा सप्तभङ्गी प्रथम इह मतः स्याद् घटोऽस्तीति भङ्गः, स्यान्नास्तीति द्वितीयस्तदुभययुगपद्भावतः स्यात् तृतीयः । सोऽवक्तव्यः कथञ्चित् क्रमिकतदुभयस्मात् तुरीयोऽस्ति नास्ति, स्याद् युक्तः पञ्चमः स्यात् प्रथमघटनया भङ्गकेऽथो तृतीये ॥ १२७॥ षष्ठस्तत्र द्वितीयानुगमनजनितः सप्तमः स्यात् तुरीया
क्रान्त्या तत्रैव चेत्थं सुघटितरचना सप्तभङ्गी प्रतीता । प्राधान्यं चास्तितायाः प्रथम इह मता नास्तिताया द्वितीये,
प्राधान्यं चोभयोश्चेद् वचनविगमतः स्यात् तृतीयस्तु भङ्गः ॥ १२८ ॥ नोक्तार्थं षट् समासा अभिदधति तथा वाक्यमात्रं न वक्ति, नैव ब्रूते पदं चाभिलषितमुभयं नैव सङ्केतिकं तत् । अत्रावक्तव्यरूपं प्रकृतमभिहितं यादृशं तत् प्रवक्तुं,
नालं स्यादेकसामासिकमपि च पदं स्यादवक्तव्य इत्थम् ॥ १२९॥ सार्थक्यं चोपपत्त्या कलितमतितरां स्थापितं च द्वितीये,
भङ्गो यद्वा तृतीयः सुमननपदवीं ग्राहितो युक्तिजालैः । योग्यास्तत्र प्रकारा नियमितविषयाः षोडशाऽभीष्टसिद्ध्यै, संक्षेपेणोपदिष्टाः सुविहितमनना मोददा नीतिनद्धाः ॥ १३० ॥ भङ्गोऽयं सम्मतावप्यभिहितविषयोऽभीष्ट उक्तोपपत्त्या,
अज्ञात्वा हार्दमुक्तं यदपि च पशुपालेन तत् खण्डितं च ।
mmmm
चर्चाऽवच्छेदके संकुचन विकसने चोपजीव्योपबद्धा, :: विस्ताराकाङ्क्षिभिः सम्यगिह नयरहस्यादितो ज्ञेयमेतत् ॥ १३१॥ एते भङ्गास्त्रयोऽथाऽभिदधति ननु यत् सर्वधर्मात्मकैक
वस्तु स्यात्कारयुक्तास्तत इह सकलादेशता सुप्रतीता । मुख्यं सत्त्वाद्यमुख्यं सकलमथ परं भासते मुख्य-गौण
भावादत्र व्यवस्थोपगमपदमिता नीतिविद्भिर्विभाव्या ॥ १३२॥ एतत् सर्वं विवक्षाकृतमनुमतिगं गौण - मुख्यव्यवस्था,
भङ्गे सर्वत्र मान्या परमित उदिता ये चतुर्थादिभङ्गाः ।
तं मान्या द्वित्रिधर्मानुगतसकलधर्मात्मधर्मिस्वरूप
वाक्यार्थोद्बोधदक्षा अनुमतविकलादेशभावास्तु कैश्चित् ॥ १३३ ॥
३७१