________________
१८०
अनेकान्तव्यवस्थाप्रकरणम् । सम्बद्धवस्तुद्वयादव्यतिरिक्तत्वात्, तत्स्वरूपवत् । ननु 'तत्स्वरूपम् इत्यत्रैवाभेदे षष्ठीप्रयोग इति विपरीताभिधानमिदमिति चेत् ? नात्र तत्पुरुषः, कर्मधारयस्यैवाश्रयणात् , 'तस्य स्वरूपम्' इति षष्ठीप्रयोगोऽप्यविभागेन दृश्यत इति चेत् ? न-'समभिरूढनयमतावलम्बिभिरस्य प्रयोगस्य विगीतत्वात् , भेदोपचारेण वाऽत्र षष्ठीसमर्थनात्, अत एवात्र भेदे कथं षष्ठी ?' इति बाधमपि प्रदर्शयन्ति सूक्ष्मेक्षिणः, इत्थं च द्वन्द्व-कर्मधारयातिरिक्तसमाससमर्थनमेतन्मत उपचारेणैवेति बोध्यम् ॥
सम्बद्धवस्तुद्वयादमिन्नः सम्बन्धः यो हि यतोऽव्यतिरिक्तः स तत्प्रतिपादकशब्दोत्तरषष्ठीप्रयोगहेतुर्न भवति, घटस्वरूपस्य घटप्रतिपादकघटपदोत्तरषष्ठ्यादिविभक्तिहेतुत्वं यथा नेत्याह-सम्बद्धवस्तुयेति । ननु तस्य स्वरूपं तत्स्वरूपमिति षष्ठीतत्पुरुषसमासे खरूपस्याभिन्नस्यापि षष्ठीप्रयोगहेतुत्वं दृश्यत एवेति 'तत्वरूपवद्' इति दृष्टान्तस्यैवायुक्तत्वमित्याशङ्कते-नन्विति । 'तत्स्वरूपम्' इत्यत्रैव 'तत्स्वरूपम्" इत्यत्र लुप्तषष्ठीविभक्तिस्मरणत एवान्वयबोध इति तत्र यथाऽभेदे षष्ठीप्रयोगस्तथाऽन्यत्रापीत्येवं वस्तुस्थितौ सत्यां तत्स्वरूपवद् इति दृष्टान्ताभिधानभेदे षष्ठीप्रयोगो न सम्भवतीत्यर्थोपपादनाय विपरीताभिधानमिति शङ्कार्थः । तस्य स्वरूपं तत्स्वरूपमिति. षष्ठीतत्पुरुषसमासो न, किन्तु तच्चादः स्वरूपं चेति कर्मधारयसमास एवेति न विरुद्धाभिधानमिति समाधत्ते-नात्र तत्पुरुष इति । अत्र 'तत्स्वरूपम्' इत्यस्मिन् ॥ समभिरूढनयमुपाश्रित्य समाधातुराशयमविद्वान् शङ्कते-तस्य स्वरूपमितीति। अविभागेन अविशेषेण । भवत्वन्यमतेऽयं प्रयोगः । समभिरूढनयमते तु विगीतत्वादयं प्रयोगो न भवत्येवेति । समाधत्ते-नेति । अस्य प्रयोगस्य तस्य स्वरूपमिति प्रयोगस्य । विगीतत्वात् निन्दितत्वात् , तथा च समभिरूढनयावलम्बिनोऽनिष्टसाधनत्वं प्रतिसन्धाय तथा न प्रयुञ्जत एवेत्याशयः, एवं तर्हि तथाप्रयोगस्यानुभूयमानस्य का गतिरित्यत आह-भेदोपचारेण वेति । अत एव भेदोपचारेणात्र षष्ठीप्रयोग एतस्मादेव कारणात् । भेदे उपचारेण भेदे स्वीकृते. सति । कथं षष्ठी? भेदे सम्बन्धाभावात् षष्ठी न सम्भवत्येवं स्वरूपं बाधमनि-सूक्ष्मक्षिणः सूक्ष्मेक्षिकया तत्त्वमवलोकयन्तः प्रमातारः, प्रदर्शयन्तीति, इत्थंच वस्तुगल्या कर्मधारय-द्वन्द्वसमासातिरिक्तसमासासम्भवव्यवस्थितौ च। एतन्मते समभिरूढनयमते॥