________________
तत्त्वबोधिनीविवृतिविभूषितम् १८१ अपरमपि समभिरूढनयामिप्रायभेदं दर्शयन्नाह"घडकारविवक्खाए, कत्तुरणत्यंतरं जओ किरिया । न तदत्यंतरभूए, समवाओ तो मओ तीसे ॥ कुंभंमि वत्थुपज्जायसंकराइप्पसंगदोसाओ। जो जेण जं च(व) कुरुए, तेण विभिन्नं तयं सव्वं ॥” ।
[विशेषावश्यकभाष्यगाथे-२२४९, २२५०] ___घटं करोतीति घटकार इत्यस्यां विवक्षायां प्ररूपणायाम् , यतःयस्मात् , तस्य घटकर्तुः, अनर्थान्तरम्-अव्यतिरिक्ता घटकरणक्रिया, कर्तर्येव घटकारे तस्याः समवायात्, तो त्ति-तस्मात्, न तदर्थान्तरभूते-कर्तृव्यतिरिक्ते, कुम्भे-घटे, तस्याः समवायः-संश्लेषो, मतः, कुतः ?, वस्तुपर्यायसङ्करादिदोषप्रसङ्गात्-कर्तृगतक्रियायाः कर्मण्यपि समवायाभ्युपगमे वस्तुपर्यायाणां विभिन्नवस्तुधर्माणां परस्परं सङ्करः सङ्कीर्णत्वमेकत्वं वा स्यादिति । ततश्च यः-कुम्भकारादिः, येन क्रियाविशेषण, यत्-कुम्भादिकं, कुरुते तेन क्रियाविशेषेण, तक्रियारूपतयेत्यर्थः, सर्व तत्-कर्तृकर्माद्यभिन्नं स्यात् , तस्मात् कर्तृगतक्रियाया न कर्मणि सङ्क्रमः, किन्तु कुर्वन् कारकः; कुम्भनादिभ्य एव कुम्भादय इति मन्यते समभिरूढः॥
__ नयान्तरतो भेदसिद्ध्यर्थं समभिरूढनयाकूतान्तरोपदशकं भाष्य-गाथायुगलमवतार्य पठति-अपरमपीति । घटकार इति-“घटकारविवक्षायां कर्तुरनर्थान्तरं यतः क्रिया। न तदर्थान्तरभूते समवायस्ततो मतस्तस्याः । कुम्भे वस्तुपर्यायसङ्करादिप्रसङ्गदोषात् । यो येन यद् वा कुरुते तेन विभिन्नं तत् सर्वम्" ॥ इति संस्कृतम्। विवृणोति-घटमिति । तस्याः घटकरणक्रियायाः, नो मत इत्यनेन सम्बन्धः । सङ्करादि० इत्यादिपदात् संशयविपर्ययैकत्वादेरुपग्रहः । तत्र सङ्करैकत्वप्रसङ्गावेव सङ्गमयति-कर्तृगतक्रियाया इति । उपसंहरति-तस्मादिति । अयं सममिरूढ