________________
तत्त्वबोधिनीविवृतिविभूषितम् १७९ तन्मते नाऽनुपपन्नः, परस्परानन्वितनानापदार्थकसमासत्वस्यैव द्वन्द्वलक्षणत्वात् , अभेदेनान्वयस्य भेदेनान्वयस्य च तुल्ययोगक्षेमत्वात् , न तु राज्ञः पुरुषो राजपुरुष इति षष्ठ्यादिसमास एतन्मते युज्यते, यतो भिन्नानामन्योऽन्यं संसर्गः सम्बन्धो न घटते, तथाहि-सम्बद्धवस्तुद्वयात् सम्बन्धो भिन्नः ? अभिन्नो वा ? यदि भिन्नस्तर्हि सम्बद्धवस्तुद्वयाद् भिन्नं तृतीयमेव वस्तु तत् स्यात् , न तु सम्बन्ध इति कथं तद्वशात् षष्ठ्यादिविभक्तिः, नहि विन्ध्य-हिमवदादिभ्यो भिन्नो घटादिस्तत्सम्बन्धो भण्यते, नापि तद्वशात् तेषां षष्ठ्यादिविभक्तिः प्रवर्तते, अथ सम्बद्धवस्तुद्वयादभिन्नः सम्बन्धस्तर्हि नासौ षष्ठ्यादिप्रयोगहेतुः,
समासो यो नैतन्मतेऽनुपपन्न इत्यपेक्षायामाह-परस्परेति-धव-खदिरपलाशाः' इति द्वन्द्वसमासोऽयं परस्परानन्वितानामेव नानापदार्थानां धवखदिर-पलाशानां वाचकानां धवादिपदानाम् , इत्युक्तलक्षणं तत्र घटते । षष्ठीतत्पुरुषादिसमासस्तु नैतन्मते युज्यते, भेदे सम्बन्धाभावादित्याह-न विति-अस्य 'युज्यते' इत्यनेन सम्बन्धः। एतन्मते समभिरूढनयमते । षष्ठ्यादिसमासासम्भवे हेतुमाह-यत इति । भिन्नानामन्योऽन्यसम्बन्धासम्भवमेव भावयति-तथाहीति । यदि मिन्नः सम्बद्धवस्तुद्वयाद् यदि सम्बन्धो भिन्न इत्युपेयते । तर्हि तदा । सम्बन्धिद्वयाद् यद् मिन्नं तन्न सम्बन्धखरूपमिति, संसर्गतयाऽभिमतस्य सम्बन्धिद्वयाद् भिन्नत्वे तृतीयवस्तुस्वरूपतैव तस्य स्यान्न सम्बन्धरूपतेत्याह-सम्बद्धति । तत् सम्बन्धतयाऽभ्युपगतम् । तस्य सम्बन्धत्वाभावे च तद्वशात् षष्ठ्यादिविभक्तिरप्यनुपपन्नेत्याह-कथमिति-किमोऽत्राक्षेपार्थकत्वान्न कथञ्चिदित्यर्थः । सम्बन्धिद्वयाद् भिन्नः सम्बन्धो न भवतीत्येतदुपपादनाय-नहीति-अस्य 'भण्यते' इत्यनेन सम्बन्धः । तत्सम्बन्ध विन्ध्य-हिमवदादिसम्बन्धः । यतश्च घटादिर्न विन्ध्यादिसम्बन्धोऽतस्तबलाद् विन्ध्यस्य हिमवानित्यवं षष्ठ्यादिविभक्तिमुपादाय प्रयोगोऽपि न भवतीत्याह-नापीति-अस्य 'प्रवर्तते' इत्यनेन सम्बन्धः । तद्वशात् घटादिलक्षणभिन्नवस्तुबलात् । तेषां विन्ध्यहिमवदादीनाम् ॥ द्वितीयपक्षमधिकरोति-अथेति । सम्बद्धवस्तुद्वयादभिन्नस्य सम्बन्धस्य षष्ठ्यादिप्रयोगहेतुत्वं न सम्भवतीत्याह-तीति । असौ