________________
१७८ अनेकान्तव्यवस्थाप्रकरणम् । देशः, किन्तु तत्सम्बन्धित्वादस्वतन्त्रोऽपि देशिनो भिन्नो देश इति चेत् ? तत्राह न च (वा) देशिलक्षणाद् वस्तुनो भिन्नोऽसौ देशः, अथ भिन्नस्तस्मादिष्यतेऽसौ, तर्हि, अन्यस्याऽन्येन विन्ध्येन हिमवदादेरिव सम्बन्धायोगान तस्य देशिनस्तकोऽसौ देशः, यदि पुनस्तस्य देशिनः सम्बन्धी देशोऽभ्युपगम्यते तर्हि घटादेः स्वस्वरूपवद् न स देशस्तस्माद् देशिनो भिन्नः, किन्तु तदात्मक एवेति ॥ ___ अत एव विशेषण-विशेष्यभूतानां सर्वेषामपि पदानां समानाधिकरणता-कर्मधारय एव समासो युज्यत इत्यर्थः, यथा-नीलोत्पलादीनाम् , उपलक्षणं चेदम्- 'धव-खदिर-पलाशाः' इत्यादिर्द्वन्द्वोऽप्ये
तन्त्रोऽपि देशो न देशिना भिन्न इत्यावेदयितुमाह-अथेति । तत्सम्बन्धित्वात् देश्यात्मकवस्तुसम्बन्धित्वात् । देशस्य देशितो भिन्नत्वाभ्युपगमे यथा भिन्नेन विन्ध्येन हिमवतः सम्बन्धो न भवति तथैव देश-देशिनोः सम्बन्धो न भवेत् , इष्यते च तयोः सम्बन्धः, अतो न देशिनो देशो भिन्न इत्याह-अथेति-यदीत्यर्थः । तस्मात् देशिनः । असौ देशः । घटादेः स्वस्वरूपवदिति-घटादेः स्वस्वरूपं यथा घटसम्बन्धित्वान्न घटादितो भिन्नं तथा देशिनः सम्बन्धित्वाद् देशो न देशिनो भिन्न इत्यर्थः । यदि देशो न देशिनो भिन्नस्तर्हि किमात्मकोऽसाविति पृच्छतिकिन्त्विति । उत्तरयति-तदात्मक एवेति-देश्यात्मक एव देश इत्यर्थः ॥
द्वितीयगाथार्थमाह-अत एवेति-देशस्य देश्यात्मकत्वादेवेत्यर्थः । समानाधिकरणतेति-विभिन्नप्रवृत्तिनिमित्तकानां पदानामेकार्थवृत्तिः सामानाधिकरण्यम् , तच्च स्वप्रयोज्यविशेष्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्नप्रकारताप्रयोजकत्वम्, एतच्च विशेष्य-विशेषणपदयोः समानवचनकत्वे सति व्यासवाक्ये भवति, यथा-'नीलो घटः नीलमुत्पलम्' इत्यादौ, समासवाक्ये तु नीलं च तदुत्पलं च नीलोत्पलमिति, नीलश्चासौ घटश्च नीलघट इत्यादिकर्मधारयसमासे भवतीत्यतः समासेषु कर्मधारयसमास एव देशि-देशवाचकपदयोरेतन्मते युज्यत इत्याह-कर्मधारय एव समासो युज्यत इत्यर्थ इति । यथा च कर्मधारयसमासोऽस्याभिमतस्तथा द्वन्द्वसमासोऽपीत्याह-उपलक्षणं चेदमिति । एतन्मते समभिरूढनयमते । किंलक्षणको द्वन्द्व