________________
२६६
अनेकान्तव्यवस्थाप्रकरणम् । द्रव्यस्य 'यमहमद्राक्षं तमेव स्पृशामि' इत्यनुसन्धानाध्य(द् व्य)क्षग्राह्यत्वाद् , रूपादीनां च प्रतिनियतेन्द्रियप्रभवप्रत्ययावसेयत्वाद् , 'दार्शनं स्पार्शनं च द्रव्यम्' [ ] इत्याद्यभिधानादसमानग्रहणता द्रव्य-गुणयोः सिद्धा, तथा विभिन्नलक्षणत्वमपि “क्रियावद् गुणवत् समवायिकारणं वा द्रव्यम्" [ ] "द्रव्याश्रया निर्गुणा गुणाः" [ तत्त्वा० अ० ५, सू० ४०] इत्यादिवचनात् सिद्धम् ॥ एतन्मतं परिजिहीर्षुराह
"दूरे ता अण्णत्तं, गुणसद्दे चेव ताव पारिच्छं । किं पजवाहिए होज, पज्जवे वा वि गुणसण्णा ॥"
[सम्मतिकाण्ड० ३, गाथा-९] दूरे तावद् गुणगुणिनोरेकान्तेनान्यत्वम् , असम्भावनीयमिति न चेति । द्रव्य-गुणयोर्भिन्नप्रमाणग्राह्यत्वं व्यवस्थापयति-द्रव्यस्येति । प्रतिनियतेति-चक्षुरिन्द्रियजप्रत्ययावसेयत्वं रूपस्य, रसनेन्द्रियजप्रत्ययावसेयत्वं रसस्य, घ्राणेन्द्रियजप्रत्ययावसेयत्वं गन्धस्य, त्वगिन्द्रियजप्रत्ययावसेयत्वं स्पर्शस्येत्येवं प्रतिनियतेन्द्रियजप्रत्ययावसेयत्वादित्यर्थः । दार्शनं चक्षुरिन्द्रियजन्यप्रत्यक्षविषयः स्पार्शनं त्वगिन्द्रियजन्यप्रत्यक्षविषय; द्रव्य-गुणयोविभिन्नलक्षणत्वमुपपादयतितथेति। 'विभिन्नलक्षणत्वमपि' इत्यस्य 'सिद्धम्' इत्यनेनान्वयः। क्रियावत्त्वमाकाशादौ विभुन्यव्याप्तमिति क्रियावद्वृत्तिसत्ताभिन्नजातिमत्त्वं द्रव्यलक्षणं बोध्यम्।द्रव्याश्रयेतिद्रव्यवृत्तित्वलक्षणं द्रव्याश्रयत्वमवयवात्मकद्रव्यवर्तिन्यवयविन्यतिप्रसक्तमतो निर्गुणत्वमुपात्तम् , एवमपि कर्मादावतिप्रसक्तिर्न वारिता स्यात् तद्वारणाय द्रव्याश्रयत्वं यदि द्रव्यत्वव्यापकतावच्छेदकसत्ताभिन्नजातिमत्त्वं तदा तावन्मात्रमेव गुणलक्षणम् 'निर्गुणा' इति गुणे गुणा न विद्यन्त इति ख्यापनपरम् , निर्गुणवृत्तिकर्मावृत्तिजातिमत्त्वपर्यवसितं निर्गुणत्वं वा पृथगेव' गुणलक्षणमिति बोध्यम् ।
निरुक्तमतखण्डनपरां सम्मतिगाथामवतार्योल्लिखति-एतन्मतमिति । दरे इतिदूरे तावदन्यत्वं गुणशब्द एव तावत् पारीक्ष्यम् । किं पर्यायाधिके भवेत् पर्याये वाऽपि गुणसंज्ञा ॥” इति संस्कृतम् । विवृणोति-दूर इति । गुण-गुणिनोरेकान्तेनान्यत्वं