________________
तत्त्वबोधिनीविवृतिविभूषितम्
२६५ एव, यतः, परस्मिन् भवे, स्वयमेव पुरुषो, भजनीय:-आत्मरूपतयाऽभेदेन व्यवस्थापनीयः, घटाद्याकारपरिणतमृद्र्व्यवदित्यनेकान्तः । यद्वा कोपपरिणतिमन्यस्मिन् जीवे उत्पादयन् पुरुषः कारको भवति, ततोऽसौ कोपकारकत्वेन विभजनीयः-कोपपरिणतियोग्ये जीवे कारकोऽन्यत्राकारक इति ॥ - अथ द्रव्य-गुणानां भेदा-ऽभेदानेकान्तममृष्यमाणानां मतमुत्थापयति
"रूव-रस-गंध-फासा, असमाणग्गहण-लक्खणा जम्हा । तम्हा दवाणुगया, गुण त्ति ते केइ इच्छंति"॥
[सम्मतिकाण्ड० ३, गाथा-८] रूप-रस-गन्ध-स्पर्शा असमानग्रहण-लक्षणा यस्मात् तत्तो द्रव्याश्रिता गुणा:-तद्भिन्ना एवेति केचन-वैशेषिकाद्याः स्वयूथ्या वा सिद्धान्ताऽनभिज्ञाः, अभ्युपगच्छन्ति, तथाहि-गुणा द्रव्याद् भिन्ना भिन्नप्रमाणग्राह्यत्वाद् भिन्नलक्षणत्वाच्च, स्तम्भात् कुम्भवत् , न चासिद्धौ हेतू , हेतुः-यत इति । अनेकान्त इति-परभवप्रादुर्भावपरिणतिविशिष्टजीवत्व-कोपपरिणामापन्नपूर्वभवजीवत्वाभ्यां भेदः, आत्मरूपतया चाभेद इत्येवं शबलात्मको जीव इत्यर्थः, इत्थं यस्मिन् जीवे कोपपरिणामो जनितस्तस्य भिन्नाभिन्नोभयात्मकत्वेनानेकान्तरूपतोपपादिता, अथ कोपोत्पादकपुरुष एवानेकान्तरूपतासमर्थनपरं व्याख्यानान्तरमाह-यद्वेति । असौ कोपोत्पादकः पुरुषः, अन्यत्र कोपपरिणत्ययोग्ये, तथा च कोपकारकत्व-तदकारकत्वाभ्यामनेकान्तरूपता तस्येति भावः ।
· द्रव्य-गुणयोर्भेद एव न तु भेदा-ऽभेदाविति वैशेषिकमतोपदर्शकं सम्मतिवचनमवतार्य दर्शयति-अत्रेति । रूव० इति-"रूप-रस-गन्ध-स्पर्शा असमानग्रहण-लक्षणा यस्मात् । तस्माद् द्रव्यानुगता गुणा इति ते केऽपीच्छन्ति ॥” इति संस्कृतम् । विवृणोति-रूपेति । तद्भिन्ना एव द्रव्याद् भिन्ना एव । अनुमानप्रमाणेन गुणानां द्रव्यभिन्नत्वं साधयति-तथाहीत्यादिना। भेदसाधकहेत्वोः स्वरूपासिद्धता परिहरति