________________
२६४ अनेकान्तव्यवस्थाप्रकरणम् । दानात् , कोपपरिणाममापद्यमानश्च पुरुषः, ततः-परभवजीवाद् , विभजनीयः-भिन्नो व्यवस्थापनीयः, कार्य-कारणयोर्मुत्पिण्ड-घटवत् कथञ्चिद्भेदात् , अन्यथा कार्य-कारणभावाभावप्रसङ्गात् । 'वीतरागजन्माऽदर्शन'न्यायेनैकत्वेन सिद्धस्य जीवस्य कथं भवभेदेन भेद इति चेत् ?, मृद्रव्यतयैकत्वेन सिद्धस्य मृत्पिण्ड-घटभावाभ्यामपि कथं भेदः ? नहि मृत्पिण्ड-घटभावाभ्यां मृद इव देव-मनुजभावाभ्यां जीवस्य वैलक्षण्यमप्रामाणिकमिति विभावनीयम् , न चासौ ततो भिन्न
दकपुरुषस्य तादृशजीवनिर्वर्तकत्वं सम्भवतीति । ननु य एव पूर्वभवस्थो जीवः स एव परभवस्थ इत्येकस्य तस्य कथं कर्मद्वारा स्वं प्रत्येव कारणत्वं येनोक्तदिशा कोपोत्पादकपुरुषस्य तन्निवर्तकत्वं स्यादित्यत आह-कोपपरिणामेति । अन्यथा कोपपरिणतिमापद्यमानस्य पूर्वभवस्थजीवस्य परभवजीवाद् भेदाभावे । अत्र परः शङ्कतेवीतरागेति-वीतरागस्य जन्माप्रसिद्ध्या तद्दर्शनाप्रसिद्धौ तददर्शनमप्यप्रसिद्धमतो 'वीतरागजन्मादर्शनाद्' इत्यस्य 'सरागस्यैव जन्मदर्शनाद् इत्यर्थः, अस्य न्यायस्येदमैदम्पर्यम्-गर्भनिस्सरणानन्तरमेव पुरुषो मातुः स्तनपानं कर्तुमिच्छति, इच्छा चेष्टसाधनताज्ञानपूर्विका, नहि तदानीमेवोत्पन्नोऽयं पुरुषोऽस्मिन् भवे स्तनपानं कृतवानिति 'स्तनपानं मदिष्टसाधनम्' इत्यनुभवरूपं ज्ञानमस्य नास्तीति न चोक्तेष्टसाधनताज्ञानमन्तरेण तदिच्छा तस्य संभवतीति स्मरणरूपं तस्य तदिति वाच्यम् , स्मरणं च संस्कारद्वारा अनुभवजन्यमिति पूर्वजन्मनि तस्य तदनुभव इति पूर्वजन्मसिद्धौ तत्रापि प्रथमतस्तस्य स्तन्यपानगोचरा प्रवृत्तिरिष्टसाधनतास्मरणपूर्विकैवेत्येवमनादिभवपरम्परासिद्धितस्तद्भवपरम्परानुगाम्येक आत्मेति उक्तन्यायेनैकत्वेन सिद्धस्यात्मनः कथं भवभेदेन भेद इति शङ्कार्थः । प्रतिबन्दिमुखेन समाधत्ते-मृद्रव्यतयेति । कथं भेद इति-तथा च मृगव्यतयैकत्वेन सिद्धस्यापि यथा मृत्पिण्डघटभावाभ्यां भेदस्तथा वीतरागजन्मादर्शनन्यायेनैकत्वेन सिद्धस्यापि जीवस्य पूर्वभवभावोत्तरभवभावाभ्यां भेदः । न च तत्र वैलक्षण्यं समस्ति प्रकृते तु वैलक्षण्यं नास्तीति विनिगमकमिति वाच्यम् , अत्रापि वैलक्षण्यस्य सद्भावादित्याह-न हीति-अस्य 'अप्रामाणिकम्' इत्यनेनान्वयः । एतावता जीवे भेदसिद्धावप्यभेदासिद्धौ न भेदा-ऽभेदोभयात्मकत्वलक्षणानेकान्तरूपता सिद्ध्यतीत्यत आह-न चेति-असौ परभवजीवाद् भिन्न एव न चेत्यर्थः । अत्र