________________
तत्त्वबोधिनीविवृतिविभूषितम्
२६७ यावत् , गुणात्मकद्रव्यप्रत्ययबाधितत्वादेकान्तेन गुण-गुणिभेदस्य, न च समवायनिमित्तोऽयमभेदप्रत्ययः, तत्र प्रमाणाभावात् , न चैकत्वप्रत्ययस्य प्रागुक्तानुमानबाधा, एकत्वप्रत्ययाध्यक्षबाधितकर्मनिर्देशानन्तरं प्रयुक्तत्वेनैकशाखाप्रभवत्वानुमानस्येव तस्य कालात्ययापदिष्टत्वात् , ततो गुण-गुणिनोरेकान्तान्यत्वस्यासम्भवाद्, गुणशब्द एव तावत् पारीक्ष्यमस्ति, किं पर्यायादधिके गुणसंज्ञा-गुणशब्दः प्रवर्तते ? किं वा पर्याय एव भवेत् ?, पर्यायानन्यत्वे कथञ्चिद्रव्यात्मकत्वमेवेत्यभिप्रायः । यदि च पर्यायादन्यो गुणः स्यात् तदा पर्यायार्थिकवद् गुणार्थोऽपि नयः स्यादित्यनिष्टापत्तिमाह
कथमसम्भावनीयमित्यपेक्षायामाह-गुणात्मकेति-'नीलो घटः पीतो घटः' इति गुण-गुणिनोस्तादात्म्यावगाही यो गुणात्मकद्रव्यप्रत्ययस्तेन बाधितत्वादित्यर्थः । ननु 'नीलो घटः' इत्यादिप्रत्ययस्य समवायेन नीलरूपवान् घट इत्यादिरेव विषयो न तु गुण-गुणिनोरभेदस्तस्य विषय इति न तेन बाधितत्वं गुण-गुणिभेदस्येत्याशय प्रतिलिपति-न चेति । निषेधे हेतुमाह-तत्रेति-समवाय इत्यर्थः । ननु गुण-गुणिनोरेकत्वप्रत्ययस्यैव तयोर्भेदावगाह्यनुमानप्रत्ययेन बाधनादेकान्तेन तयोर्भद एव पुरस्क्रियतामित्याशय प्रतिक्षिपति-न चेति । प्रागुक्तति-'गुणा द्रव्याद् भिन्नाभिन्नप्रमाणग्राह्यत्वाद् भिन्नलक्षणत्वाच्च' इति ग्रन्थोक्तेत्यर्थः। प्रबलेन दुर्बलस्य बाधो भवति, ननु दुर्बलेन प्रबलस्य, उक्तानुमानं चैकत्वग्राहिप्रत्यक्षप्रमाणबाधितविषयकत्वाद् दुर्बलमतो न तेनैकत्वावगाहिप्रत्यक्षबाध इत्याह-एकत्वप्रत्ययेति-एकत्वप्रत्ययरूपं यद् अध्यक्षं तेन बाधितं यत् कर्म अनुमित्यात्मकक्रियाया विषयत्वलक्षणकर्मताशालिगुण-गुणिभेदात्मकसाध्यं प्रतिज्ञात्मकतन्निर्देशानन्तरं भिन्नप्रमाणग्राह्यत्व-भिन्नलक्षणत्वरूपहेत्वोः प्रयुक्तत्वेन, तस्य भेदसाधकानुमानस्य, कालात्ययापदिष्टत्वाद् बाधितत्वात् , एकशाखाप्रभवत्वानुमानस्येव यथा “एतान्याम्रफलानि पक्कानि एकशाखाप्रभवत्वात् परिदृश्यमानपक्काम्रफलवद् इत्यनुमानस्यापक्कैकशाखाप्रभवाम्रफलग्राहिप्रत्यक्षबाधितकर्मनिर्देशानन्तरप्रयुक्तत्वेन बाधितत्वं तथेत्यर्थः। ततः मेदसाधकानुमानस्य बाधितत्वात् । पर्यायानन्यत्वे गुणशब्दः पयोय एव प्रवर्तत इति