SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ २६२ अनेकान्तव्यवस्थाप्रकरणम् । तायाः पुद्गलवदविरोधात्, अनेनैव हि न्यायेन सिद्धेष्वपि त्रैलक्षण्यं व्यवतिष्ठते, तथा द्रव्य-कषायादिभेदादप्यात्मनः पुद्गलवदनेकान्तरूपता सिद्धान्तसिद्धैव, तथा च वाचकमुख्यः "द्रव्यं कषाय-योगावुपयोगो ज्ञान-दर्शने चैव । चारित्रं वीर्यं चेत्यष्टविधा मार्गणा तस्य । जीवा-ऽजीवानां द्रव्यात्मा, सकषायिणां कषायात्मा । योगः सयोगिनां पुनरुपयोगः सर्वजीवानाम् । ज्ञानं सम्यग्दृष्टेर्दर्शनमथ भवति सर्वजीवानाम् । चारित्रं विरतानां तु, सर्वसंसारिणां वीर्यम् ॥ द्रव्यात्मेत्युपचारः, सर्वद्रव्येषु नयविशेषेण । आत्मादेशादात्मा, भवत्यनात्मा परादेशात् ॥ ह्यस्य विनाशे तदाहित्वेन विनष्टं स्वग्राह्यस्योत्पादे तदाहित्वेनोत्पन्नं ज्ञानात्मना त्वविचलमित्येवमुत्पाद-व्यय-ध्रौव्यात्मकत्रैलक्षण्ययोगादनेकान्तात्मकत्वमित्याह-अनेनैवेति-तत्तद्वाह्यापेक्षयाऽनेकान्तरूपताप्रापकेणेत्यर्थः । प्रकारान्तरेणापि पुद्गलवदनेकान्तरूपताऽऽत्मन इत्यावेदयति-तथेति । ___ द्रव्य-कषायादिभेदादात्मनोऽनेकान्तरूपतायाः सिद्धान्तसिद्धत्वस्य दााय तत्र प्रशमरति प्रकरणे भगवदुमास्वातिवाचकमुख्यदृब्धं वचनकदम्बकमुपदर्शयतितथा च वाचकमुख्य इति । द्रव्यमिति०-तस्य आत्मनः । मार्गणा चिन्तना, 'द्रव्यम् , कषायः, योगः, उपयोगः, ज्ञानम् , दर्शनम् , चारित्रं, वीर्यं च' इत्येवम् अष्टविधा अष्टप्रकारा भवतीत्यर्थः ॥ तत्र येषां द्रव्यमात्मा, येषां कषाय आत्मा इत्यादि, तान् विविच्य दर्शयतिजीवा-ऽजीवानामिति । योगः योगात्मा, एवमुपभोग इत्यादीनामप्युपभोगात्मेत्यादिरूपेण व्याख्यानमवसेयम् ॥ ___जीवा-ऽजीवानां द्रव्यात्मेति कथमित्यपेक्षायामाह-द्रव्यात्मेत्युपचार इति । नयविशेषेण सङ्ग्रहनयेन । कषायादिकं कथमात्मेति व्यपदिश्यत इत्यपेक्षायामाह-- आत्मादेशादात्मेति-कषायादेहात्मधर्मत्वाद् धर्म-धर्मिणोरभेद इति कृत्वाऽऽत्म
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy