________________
तत्त्वबोधिनीविवृतिविभूषितम्
२६१ तद् द्रव्यान्तरेण तुल्यमधिकमूनं वा भवेत्, प्रकारान्तराभावात् , प्रथमपक्षे सर्वथातुल्यत्वे तदेकत्वापत्तिः, तथा च नील-नीलतरादिप्रतीतिबाधः, उत्तरपक्षयोः सङ्ख्येयादिभाग-गुणवृद्धि-हानिभ्यां षट्रस्थानकप्रतिपत्तिरवश्यम्भाविनीति प्रत्युत्पन्नपर्यायेणापि भजनाऽबाधितैव ॥
स्यादेतत् , पुद्गलद्रव्यस्य तादृग्भूताऽपरपुद्गलद्रव्यापेक्षयाऽनेकान्तरूपता युक्ता, प्रत्युत्पन्ने चात्मद्रव्यपर्याये कथमनेकान्तरूपता युक्ता ? मैवम्-आत्मपर्यायस्यापि ज्ञानादेस्तत्तद् ग्राह्यार्थापेक्षयाऽनेकान्तरूप
गुणविशेषाणां च मध्ये । तत् द्रव्यम् । तद्रव्यान्तरेण कृष्णद्रव्यान्तरेण । प्रथमपक्षे कृष्णद्रव्यं कृष्णद्रव्यान्तरेण तुल्यमिति पक्षे । सर्वथा सर्वप्रकारेण, खेनैव सह स्वस्य सर्वप्रकारेण तुल्यत्वम् , भिन्नस्य तु यद्रूपात्मकविरुद्धधर्माध्यासाद् भेदस्तद्रूपेण तुल्यत्वाभावान्न सर्वथा तुल्यत्वमिति, एवं च सर्वथा तुल्यत्वे तदेकत्वं प्रसज्यत इत्याह-तदेकत्वापत्तिरिति । तथा च तदेकत्वे च, एकत्वे च यन्नीलं तन्नीलतरं न भवतीति नील-नीलतरादिप्रतीतिबाधः । उत्तरपक्षयोः कृष्णद्रव्यं कृष्णद्रव्यान्तरेणाधिकमूनं वेति द्वितीय-तृतीयपक्षयोः, अधिकत्वं सङ्ख्येयभागगुणवृद्ध्यसङ्ख्येयभागगुणवृद्ध्यनन्तभागगुणवृद्धितः स्यात् , न्यूनत्वं सङ्ख्येयभागगुणहान्यसङ्ख्येयभागगुणहान्यनन्तभागगुणहानित इत्येवं सङ्ख्येयादिभाग-गुणहानिभ्यां षट्स्थानकप्रतिपत्तिरवश्यंभाविनीति प्रत्युत्पन्नपर्यायेणापि भेदाभेदात्मिका भजनाऽ. बाधितैवेत्यर्थः । नन्वेकमपि कृष्णपुद्गलद्रव्यं कृष्ण-कृष्णतराद्यबाधितप्रतीत्यनुरोधेन भिन्नमिति तत्रोक्तदिशा वर्तमानपर्यायेऽपि भेदाभेदात्मकभजनासौर्यतोऽनेकान्तरूपताप्रतिपत्तिसम्भवेऽपि प्रत्युत्पन्नात्मद्रव्यपर्याये चोक्तदिशा भजनाप्राप्त्यसम्भवात् कथमनेकान्तरूपतेत्याशङ्कते-स्यादेतदिति । पुद्गलद्रव्यस्य कृष्णगुणविशिष्टपुद्गलद्रव्यस्य । तादृग्भूतेति-कृष्णगुणविशिष्टेत्यर्थः । समाधत्ते-मैवमिति । तत्तद्राोति-नीलगुणादिविशिष्टद्रव्याद्यात्मकग्राह्यार्थापेक्षयेत्यर्थः, अर्थस्यानेकान्तात्मकत्वे तद्राहकज्ञानस्याप्यनेकान्तात्मकत्वमावश्यकम् , यतो भेदाऽभेदात्मकवस्तुग्राहिणो ज्ञानस्य भेदग्राहित्वाऽभेदग्राहित्वाभ्यां भेदः स्वरूपतश्चाभेद इत्यनेकान्तरूपता, एवं सदसदात्मकवस्तु ग्राहिणोऽपि सद्रूपार्थग्राहित्वा-ऽसद्रूपार्थग्राहित्वाभ्यां भेदः स्वरूपतोऽभेद इत्येवमनेकान्तरूपता भावनीया । एवं सिद्धेषु सर्वदावस्थितमपि ज्ञानं स्वग्रा