________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[.१७
"
प्रकारकाध्यवसायजनकतया समन्तरप्रत्ययस्येव तत्प्रयोजकतया पूर्वपूर्वतरक्षणज्ञानानामपि प्रामाण्याव्याघातात्, स्वविषयविषयकत्वस्योभयत्राविशेषात् व्यवहारसाधनाय विप्रतिपत्तिनिरासाय च तत्रानुमानमाद्रियत एव । क्षणिकत्वपक्षेऽप्यनुमानसामग्रीसम्पत्ती पक्षधर्मत्वादिमा निश्चितस्य हेतोः स्वसाध्यप्रतिबिम्बजननक्षमत्वात् सविकल्पकत्वेऽपि तस्य परम्परया वस्तुप्रतिबन्धेन प्रामाण्यात् । वसायप्रयोजकत्वेन प्रामाण्यस्याव्याघातादित्यर्थः । समनन्तरप्रत्ययस्य यदव्यवहितोत्तरक्षणे क्षणिकत्वविकल्पस्य जननं तस्य निर्वि कल्पज्ञानस्य। तत्प्रयोजकतया क्षणिकत्वप्रकारकाध्यवसायप्रयोजकतया, परम्पराकारणस्यान्यथासिद्धत्वेऽपि प्रयोजकत्वं भवत्येवेत्याशयः क्षणिकत्वविषयकविकल्पस्य स्वविषयविषयकत्वं यथा समनन्तरप्रत्ययलक्षणे निर्विकल्प तथा पूर्वपूर्वतर निर्विकल्पकेऽपीति प्रामाण्यप्रयोजकस्य तस्य सर्वत्राऽविशेषात् सर्वस्यापि प्रामाण्यमित्याह — स्वविषयविषयकत्वस्येति-स्वं क्षणिकत्वविकल्पः, तस्य विषयः क्षणिकत्वम्, तद्विषयकत्वस्येत्यर्थः । उभयत्र समनन्तरप्रत्यये पूर्वपूर्वतरनिर्विकल्पके च । ननु यदि क्षणिकतायां निर्विकल्पक प्रत्यक्षमेव प्रमाणं तदा तत एव सिद्धे क्षणिकत्वेऽनुमानादरणं तत्र निष्फलमेवेत्यत आह-व्यवहारसाधनायेति -' इदं क्षणिकमिदं क्षणिकम्' इत्येवं क्षणिकत्वव्यवहारो निर्विकल्पकत्वप्रत्यक्षतो न भवतीत्येतदर्थ क्षणिकत्वेऽनुमा नमाद्रियते, एवं प्रत्यक्षसमधिगतेऽपि क्षणिकत्वे वादिनो विप्रतिपद्यन्त एवेति तद्विप्रतिपत्तिनिरासोऽनुमानमन्तरेण न सम्भवतीति वादिविप्रतिपत्तिव्यपोहाय तत्रानुमानमाद्रियत इत्याह-विप्रतिपत्तिनिरासाय चेति । क्षणिकत्वाभ्युपगमेऽनुमानांङ्ग पक्षधर्मत्वाद्यनिश्चयादनुमानासम्भव इति पराक्षेपप्रतिविधानायाह-क्षणिकत्वपक्षेऽपीति-क्षणिकत्वाभ्युपगमपक्षेऽपीत्यर्थः । स्वसाध्य प्रतिबिम्बेति-स्वसाध्यानुमितीत्यर्थः । सविकल्पस्यानुमानस्य नार्थस