________________
१८ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् अनुमानं च क्षणिकतायां 'यत् सत् तत् क्षणिकमेव ' 'सन्ति च द्वादशाऽऽयतनानि' इति । ननु क्षणिकत्वस्य प्रत्यक्षेणानिश्चयात् कथं हेतु-साध्ययोस्तादात्म्याविनाभावग्रहः, न च कृतका विनाशं प्रत्यनपेक्षत्वात् तद्भावनियता यतो भावा इत्यनुमानसिद्धं तत्तादात्म्यम् , निहेतुकत्वेऽपि नाशस्य यदैव घटादयो नाशमनुभवन्तः प्रतीयन्ते तदैव तेषामसौ निर्हेतुकः स्यान्नान्यदेति कथं क्षणविशरारुता कृतकत्वेऽपि भावानाम् ? एकक्षणस्थायित्वस्वभावेनोत्पत्तेर्भा
म्बन्ध इति न तस्य प्रामाण्यमित्याक्षेपसमाधानायाह-सविकल्पकत्वेऽपीति । तस्य अनुमानस्य । साध्य हेत्वादिस्वलक्षणविषयकप्रत्यक्षस्यार्थजन्यत्वेन ततः पक्षधर्मत्वादिज्ञानद्वारा जायमानस्यानुमानस्यापि परम्परया वस्तुजन्यत्वेन वस्तुप्रतिबन्धेन प्रामाण्य स्यादेवेत्याहपरम्परयेति ।प्रयोगतः क्षणिकत्वानुमानं भावयति-अनुमानं चेति । क्षणिकत्वसाधकतयाऽभिमतेन हेतुना सह क्षणिकत्वलक्षणसाध्यस्य तादात्म्यलक्षणाऽविनाभावग्रहस्यासम्भवाद् व्याप्तिग्रहरूपकारणाभावेन नानुमानोत्पत्तरेव सम्भवः, कुतस्तस्य क्षणिकतायां प्रामाण्यमित्याशङ्कते-नन्विति-साध्यस्य प्रत्यक्षेग निश्चये सत्येव साध्यहेत्वोरविनाभावग्रहः, प्रकृते च साध्यस्य क्षणिकत्वस्य प्रत्यक्षेणाऽनिश्चयान्न साध्य-हेत्वोस्तादात्म्यलक्षणाविनाभावः सम्भवतीत्यर्थः। अत्रसाध्य हेत्वोरविनाभावग्रहसम्भवमाशङ्कय प्रतिक्षिपति-न चेति‘कृतका भावा विनाशनियता विनाशं प्रत्यनपेक्षत्वाद्' इत्यनुमानस्वरूपमत्र बोध्यम्। तत्तादात्म्यं प्रकृतसाध्य हेत्वोरविनाभावतयाऽभिमतं तादात्म्यम् । निषेधे हेतुमाह-निर्हेतुकत्वेऽपीति-नाशस्य निर्हेतुकत्वेऽपीत्यन्वयः। तेषां घटादीनाम् । असौ नाशः। अन्यदा विनाशितया घटादीनां प्रतीत्यभावकाले। एवं च यदैव प्रतीयते घटादीनां नाशस्तदैव स इत्युत्पत्तिद्वितीयक्षणे प्रतीत्यभावान्नाशस्या