________________
अनेकान्तव्यवस्थाप्रकरणम् । तेनासावेक एव पित्रादिव्यपदेशमासादयति, न चासावेकस्य पिता पुत्रः संवृत्त इति शेषाणामपि पिता भवति, यथा प्रदर्शितसम्बन्धविशिष्टः पित्रादिव्यपदेशमाश्रित्यासौ पुरुषरूपतया निरतिशयोऽपि संस्तथा द्रव्यमपि घ्राण-रसन-चक्षुस्त्वक्-श्रोत्रसम्बन्धमवाप्य गन्ध-रसरूप-स्पर्श-शब्दव्यपदेशमात्रं लभते द्रव्यस्वरूपेणाविशिष्टमपि, नहि शक्रेन्द्रादिशब्दभेदाद् गीर्वाणनाथस्येव रूपादिशब्दभेदाद् वस्तुभेदो युक्तः, न चैवं पित्रादिवद् घटादेरपि सावधिकत्वप्रसङ्गः, पित्रादिव्यवहारस्येव रूपादिव्यवहारस्य सावधिकत्वेऽपि वस्तुनोऽतथात्वात् । न च चक्षुग्राह्यताविशिष्टद्रव्यस्य रूपादित्वे ग्राह्यतायाः शक्तिरूपाया अतीन्द्रियत्वेन रूपाद्यतीन्द्रियतापत्तिः, विशेषणाप्रत्यक्षत्वेऽपि विशेष्यविधया तत्प्रत्यक्षत्वसम्भवात् , शक्तिभेदाच्च न चाक्षुषादिज्ञानसङ्कर इति दिक्॥ विशेषेण । असौ पुरुषः, एवमग्रेऽपि । 'नहि' इत्यस्य ‘युक्तः' इत्यनेन सम्बधः । गीर्वाणनाथस्येवेति-गीर्वाणनाथस्य देवाधिनाथस्येन्द्रस्य यथा भेदो न युक्तस्तथेत्यर्थः । ननु पुरुषदृष्टान्तेनैकस्य नानाशब्दव्यपदेशत्वाभ्युपगमे दृष्टान्ते यथा सावधिकत्वं पुत्रापेक्षया पितृत्वं पित्रपेक्षया पुत्रत्वमित्यादि तथा दार्टान्तिकेऽपि द्रव्ये सावधिकत्वं स्यादित्याशङ्कय प्रतिक्षिपति-न चैवमिति । पुरुषेऽपि पित्रादिस्वरूपं न सावधिकं किन्तु पित्रादिव्यवहार एव, तथा द्रव्येऽपि घटादौ रूपादिव्यवहारः सावधिक इष्ट एवेति प्रतिक्षेपहेतुमुपदर्शयति-पित्रादीति । अतथात्वात् । सावधिकत्वाभावात् । ननु चक्षुर्ग्राह्यताविशिष्टं द्रव्यं यदि रूपं तदा चक्षुर्ग्राह्यतायाः शक्तिरूपाया अतीन्द्रियत्वेन चक्षुर्जन्यप्रत्यक्षाविषयत्वे तद्विशिष्टद्रव्यात्मकरूपस्यापि चक्षुजेन्यप्रत्यक्षविषयत्वं न स्यात् , एवं रसनग्राह्यताविशिष्टद्रव्यस्वरूपरसस्यापि रसनेन्द्रियजन्यप्रत्यक्षविषयत्वं न भवेत् , एवं गन्धादेरपीत्याशय प्रतिक्षिपति-न चेति । चक्षुहिताविशिष्टद्रव्यस्य इति स्थाने 'चक्षुर्ग्राह्यताविशिष्टद्रव्यादेः' इति पाठो युक्तः, आदिपदाद् रसनग्राह्यताविशिष्टद्रव्यादेः परिग्रहः। निषेधहेतुमुपदर्शयति-विशेषणाप्रत्यक्षत्वेऽपीति-चक्षुर्ग्राह्यतादिरूपविशेषणस्याप्रत्यक्षत्वेऽपीत्यर्थः । विशेष्य. विधया विशेष्यं यद् द्रव्यं तद्रूपतया। तत्प्रत्यक्षत्वसम्भवात् चक्षुर्ग्राह्यता